SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा | "अन्नं शाकं गृहे नास्ति, दधि दुग्धं च शर्करा । ताम्बूलं दृश्यते, नैव, भोजनं तस्य की दृशम् १ ॥९२॥ " भ्यानां तद्गृहगमने धनमेव लगति । ततस्ता उपहासं कृत्वा स्थिताः । ताभिर्न मानितम् । ते पश्चाद् वलिताः । ततः प्रिय श्री : प्रियं प्राह - यूयमेव स्वयं गच्छत । तदनु श्रेष्ठी तुरङ्गमे 1 १' घृतं ' इति ख- पाठः | २' गुडा नहि ' इति ख- पाठः । ३ ' खाद्यस्वाद्यादिकं नास्ति तद् भुज्यते किमु' इति ख- पाठः । ४ एतत्स्थाने क- प्रत्यां तु पाठोऽयम् - " मानोऽपि नैव । इत्युक्तास्ते पश्चाद्... ययुः । सर्वोऽपि तदुक्तवृत्तान्तः श्रेष्ठिश्रेष्ठिन्योरमे कथितः 1 तच्छ्रुत्वा श्रेष्ठी प्रियां प्रति उवाच - साम्प्रतं किं कर्तव्यम् ? । प्रिया प्राह-स्वामिन्! महता आदरेण मम भगिन्यादयः आकारणीयाः । स्वसज्जनसमुदायं विना महोत्सवा न शोभन्ते । यतः - २७ " सरांसि तरुमिर्गे, स्त्रियाऽमात्येन पार्थिवः । स्वजनैरेव शोभन्ते, धर्मकर्ममहोत्सवाः ॥ १॥” इत्युक्तः श्रेष्ठी पुनरपि स्वपुरुषान् प्रेषयामास । तैस्तत्र गत्वा महान् आदरःकृतः । ताभिर्मानितम् । यतः- " भोजनं नावलोकन्ते, क्षणमात्रविनश्वरम् । "" हते गुणिनो नित्यम्, आदरं स्वजनैः कृतम् ॥ १ ॥ ताः सर्वा अपि नानालङ्कारविभूषिताङ्गभागा महताऽऽडम्बरेण प्रिय श्रीगृहे स माजग्मुः । प्रियश्रिया स्वागतप्रश्नपूर्वं स्थानदानादिभिरत्यन्तं तासां सम्मानश्च । प्राप्ते भोजनावसरे नाना देशीय दृष्टपूर्व संस्कृतवस्तुपरिवेषणेन बहुमानपूर्वं भोजनमदाय । ता अत्यन्तं तुतुषुः । यतः - " मिष्टा न शर्करा लोके, नामृतं न च गोस्तनी । " इष्टमिष्टतरं लोके, भोजनं मानपूर्वकम् ॥ १ ॥ ' कियद्भिर्दिनैर्महोत्सवेऽतिक्रान्ते नानाभरणदुकूलप्रदानेन सत्कृताः तद्विनयविवेक-वचनचातुरीचमत्कृताः परस्परं वदन्ति स्म - " अहो एषाऽपि स्त्री वर्तते”, अतः: परं समानता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy