________________
श्रीजिनसूरमुनिवर्यविरचिता
"कृते प्रतिकृतिं कुर्यात्, हेसिते प्रतिहासितम् ।
त्वया मे लुश्चितौ पक्षौ, मया ते मुण्डितं शिरः ॥८९॥" पत्नी आह-उत्तमानामपकारे कृतेऽपि गौरवकरणमेव युक्तम् । यतः"छेहइ दीठइ छह हीया ! म दापिसि आपणुं ।
करि बहुतेरउ नेह ओछा ते उमेटसइ ॥९०॥" अन्यच्च"कृतघ्ना बहवस्तुच्छा, लभ्यन्तेऽत्र कलौ जनाः ।
कृतज्ञा उत्तमाः स्तोका, अपकारे हितकराः ॥९१॥" ततः 'श्रेष्ठी स्त्रीकथनात् तद्भगिनीनां निमन्त्रणाय स्वजनान् प्रेषयामास । ते तत्र प्राप्ताः । तेषां ताभिः प्रतिपत्तिः स्तोकैव कृता । तैनिमन्त्रणं दत्तम् । ताः कथयन्ति-आजन्ममध्ये मद्भगिनीगृहं न दृष्टम् , अद्याकारणं केन हेतुना ? । तैरुक्तम्-पुत्रस्य लेखशालाकरणमस्ति, तदुत्सवे यूयमागच्छत । ताः प्राहुः-युष्मामिर्वाच्यम्, आगता एव ज्ञेयाः। तैभृशमाग्रहः कृतः-पुनः श्रेष्ठी अस्मान् प्रेषयिष्यति । तदाताः प्रोचुः-पुनः प्रेषणं ज्ञातम्, दरिद्राणां गृहे भोजनार्थ गमने लोका अपि हास्यं कुर्वन्ति । यतः
१ - हिंसिते प्रतिहिंसितम्' इति ख-पाठः । २ तात्पर्यम्
क्षये दृष्टे क्षयं हृदय ! मा दर्शयात्मनः । कृत्वा बहुतरं स्नेहमल्पास्ते उल्लसिष्यन्ति ॥ ३ 'श्रेष्ठिकथनाद् भगिनीनां' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org