________________
प्रियङ्करनृपकथा ।
" शुभवेलाकृतं कार्य, वृद्धिलाभाय जायते । सुक्षणे स्थापितो भूयात्, गौतमः सर्वलब्धिभृत् ॥८६॥” ततः स्वजन गौरवनिमित्तं गृहे पकान्नानि क्रियन्ते स्म । तदाऽचसरज्ञा प्रियश्रीः पतिं प्राह - विवाहसमये मम भगिनीभिर्हसितं, ममापमानं च दत्तम्, ताः सर्वा निमन्त्र्य स्वगृहे संभोज्य तासां परिवाराणां वस्त्रादिना यदि गौरवं क्रियते तदा वरम् । अयमेवावसरो वर्तते । यतः
-
" अवेसरि जाणी उचिय करि अवसरि लही म भूल्लि । वारंवार तुं जाणजे अवसरि लहिसि न मूलि ॥ ८७ ॥ कैर चुलुअपाणिएण वि अवसरदिभेण मृच्छिओ जिया । पच्छा मुआण सुंदर ! घटसयदिभेण किं तेण १ ॥ ८८ ॥ " तासां पुनः स्वपुण्यफलं दर्शयामि । श्रेष्ठी आह- प्रिये ! तासां किं गौरवं क्रियते तदा वरम् १ तासां उपरि कः कोपः कः स्नेहस्ताभिर्यथा कृतं तथा करिष्यामि । उक्तं च
१ 'भव्यः' इति क-पाठः ।
२ तात्पर्यम् —
अवसरं ज्ञात्वोचितं कुरु अवसरं लब्ध्वा मा विस्मर । वारंवारं त्वं जानीहि अवसरो लप्स्यते न मूल्येन ॥
- ३ ' गऊं धन वली बाहुडि अवसरि न मलि बहु मुलि ' इति ग-पाठः ।
४ छाया
करचुलुक पानीयेनापि अवसरदत्तेन मूर्च्छितो जीवति । पश्चात् मृतानां सुन्दर ! घटशतदत्तेन किं तेन ? ॥ ५ ' सुन्दरि' इति क- पाठः । ६ ' तस्स ' इति क-पाठः । इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
२५
•
निजपुण्य
www.jainelibrary.org