________________
प्रियङ्करनृपकथा ।
स्वल्पतरं अस्यार्पणीयम् । यावद् राजा तत्र धनग्रहणाथै स्वकरकमलं क्षिपति तावता मनुष्यवाणी जाता-राजानं छलयामि, राजपुत्रं कवलयामि, कुबुद्धिदायक मन्त्रिणं गृह्णामि, पुरोहितं वा गृहामि । ततः सर्वे भीता दूरे स्थिताः । एतनिधानं भूताधिष्ठितं वर्तते । एतस्यैवार्पणीयं सकलम् । एतस्यैव(वोद्धा?) धारकं भवतु । ततो नृपेण पासदत्तश्रेष्ठी पृष्टः-यदा निधानं त्वया दृष्टं तदा तत्र कोऽपि नाभूत् । केनापि दृष्टं श्रुतं वा । श्रष्ठिनोतम्-स्वामिन् ! अहं जानामि, मद्भार्या च जानाति, तृतीयः कोऽपि नाभूत् । नृपः प्राह—तर्हि ममाग्रे त्वया कस्मात् कथितम् १ । स्वामिन् ! मम परधनग्रहणे नियमोऽस्ति । भूमिका सर्वोऽपि नरेन्द्रसत्का, तद्गतं निधानमपि, तेन मया न गृहीतम् । यतः"पतितं विस्मृतं नष्ट, स्थितं स्थापितमाहितम् ।
अदत्तं नाददीत स्वं, तॄणमात्रमपि कचित् ॥ ८०॥" राजेन्द्र ! गृहस्थस्य व्यवहारशुद्धयै धनोपार्जनं युक्तम् । यतः"वैवहारेण सुद्धेण, सुद्धो अत्यो पवडइ । धन्नाई देहपुत्तित्थी, धम्माणुट्ठाणसुद्धता ॥ ८१॥"
१ 'एतस्यैव सकलं समर्पणीयम्' इति ख-पाठः । २ 'परकीयं कचित् सुधीः' इति ख-पाठः । ३ 'वाऽर्थोपार्जनं ' इति ख-पाठः । ४ छाया
व्यवहारेण शुद्धेन शुद्धोऽर्थः प्रवर्धते । धान्यानि देहपुत्रस्त्रियो धर्मानुष्ठानशुद्धता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org