SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्री जिनसूरमुनिवर्यविरचिता तदनु सा प्रत्यहं नमस्कारो-पसर्ग हरस्तवगुणन- देववन्दनकायोत्सर्ग-प्रतिक्रमणादिपुण्यानि करोति । (यतः ) २२ " नवकार एक अक्खर पावं फेडेर सत्त अयराणं । पण्णासं च परणं, सागरपणसयं समग्गेणं ॥ ७८ ॥ " श्रेष्ठी तु विशेषतोऽष्टप्रकारपूजां करोति, यथा""वरगंध १धूवय २ चोक्खक्ख एहिं ३ दीवेहिं ४ पवरकुसुमेहिं ५ । नेवेज्ज ६ फल ७ जलेहिं ८ (य) जिणपूआ अहहा भणिया ॥ ७९ ॥ | " तत्समये श्रेष्ठिनः प्राचीनपुण्योदयो जातः । एकदा प्रियश्रीः नव्यगृह लिम्पनार्थ नगराद् बहिर्मृत्तिकाग्रहणार्थं गता । यावन्मृत्तिकां खनति सा तावता श्रेष्ठिपुण्यप्रकाशकं दारिद्र (घ) नाशकं निधानं प्रकटीभूतम् । तथैव तया तत् मृत्तिकया प्रच्छाद्य स्वसदने समागत्य भर्तुर्निवेदितम् । श्रेष्ठिना तत्रागत्य तद् विलोक्य राज्ञे विज्ञप्तम् । राज्ञा स्वसेवकाः श्रेष्ठिना सह प्रेषिताः । तत्र तैः खानयित्वा निधानं राजसभायां समानीतम् । राज्ञोऽग्रे मुक्तम् । यथायुक्तं कुरुत । नृपेण मन्त्रि पुरोहितादयः पृष्टा:-किमत्र युक्तं कार्यमिति । तैः प्रोक्तम् — निधानं राजकीयमेव, किञ्चित् १ छाया--- २ छाया नमस्कारै काक्षरः पापं स्फेटयति सप्तसागराणाम् । पचाशच पदेन सागरपञ्चशतं समग्रेण ॥ GULDINGS वरगन्धधूपकचोक्षाक्षतैः दीपैः प्रवरकुसुमैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भणिता ॥ ३ इयं गाथा श्री विजयचन्द्र केवलिचरित्रे दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy