________________
प्रियङ्करनूपकथा |
" पतिः पूज्यः पतिर्देवः पतिः स्वामी पतिर्गुरुः । सुखे दुःखे कुलस्त्रीणां शरणं पतिरेव हि ॥ ७३ ॥ " भेद्रे ! ज्ञातं दारिद्र (य) मेवापमानहेतुः । यतः -
"E
ईश्वरेण स्मरो दग्धो, लङ्का दग्धा हनूमता । न केनापि हि दारिद्र्यं दग्धं सत्त्ववताऽप्यहो ! ॥७४॥ ततः पैतिना (१) रुदन्ती सुन्दरी निवारिता । प्रिये ! दुःखं मनागपि न करणीयम् ।
1
44
दीयते आत्मनो दोषो, न दोषो दीयते परे । न दोषः स्वामिमित्राणां, कर्मदोषो हि दीयते ॥ ७५ ॥ " स्वकर्मैव विचारणीयं, पुण्यमेव समाचरणीयं, दैवचक्रं चोपधारणीयम् । यतः --
" कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ।। ७६ ।”
१' भत्री ' इति ङ-पाठः । २ ' प्रियेण ' इति ङ-पाठः ।
३ छाया
२१
प्रिये ! तदुपरि कोपस्त्त्रया न कार्यः, परगृहत्वात् । यस्माद् दशवैकालिके (अ० ५, उ०२, सू० २६) अप्युक्तं साधूनाम् - "" बहु परधरे अस्थि विविहं खाइमं साइमं । न तत्थ पंडिओ कुप्पे इच्छा दिज्ज परो न वा ॥ ७७ ॥”
-
बहु परगृहेऽस्ति विविधं खादिमं स्वादिमम् । न तत्र पण्डितः कुप्येत् इच्छया दद्यात् परो न वा ॥
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org