________________
श्रीजिनसूरमुनिवर्यविरचिता भ्रात्राऽपि कियदन्तरं कृतमस्ति ? । पुनर्मनो वालयति"हे मन! तेतलु म मागि, जे तुं देष परतणि ।
लहीयां लेखि लागि(भि),अणलहीउं लाभइ नही ॥७०॥" अतः कारणात् मया भावेन कृतो धर्म एव सहोदरः स्नेहकारणं मम शरणं भवतु । यतः
"विघटन्ते सुताः प्रायो, विघटन्ते च बान्धवाः । __ सर्व विघटते विश्वे, धर्मात्मानौ तु निश्चलौ ॥ ७१॥"
प्रियश्रीः श्याममुखा समागता। अश्रुबिन्दुभिः स्वहृदयं सिञ्चयन्तीं किन्तु कोपाग्निना ताम्यन्ती भूमिकां विलोकयन्तीं भर्ता दृष्टा प्राह-प्रिये ! कस्मादद्य त्वं विषादवती दृश्यसे ?। तव केनापमानो दत्तः १ । केन पराभवः कृतः ? । सा किमपि न वक्ति। यस्मात् प्रायः कुलस्त्रियः पितृहावमाननं श्वशुरगृहे कथमपि न कथयन्ति । यत:"आरतः परतो वार्ता, न कुर्वन्ति कुलस्त्रियः ।
मध्यमाः कलहं गेहे, कारयन्ति परस्परम् ॥ ७२ ॥" तथापि पत्या बलेन पृष्टा सती सर्व वृत्तान्तं पितृगृहगतं कथितवती । यतः
१ तात्पर्यम्
हे मनः। तावत् मा याचस्व यावत् पश्यसि परस्मिन् ।
लिखितानि लेखे लम्बन्ते अलिखितं लभ्यते नहि ॥ २ 'दयस्थलं' इति ख-पाठः। ३ किमु ' इति ख-पाठः । ४ 'गृहश्वशुरगृहापमानं कथ' इति ख-पाठः।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org