SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा। " वल्लभौ मातृपितरौ, वल्लभौ पतिपुत्रको । सहोदरश्च पश्चैते, स्त्रीणां स्युहेर्षकारणम् ॥ ६१॥" तावता अन्या अपि भगिन्यः स्वस्वगृहात् समागताः समानाः सवाहनाः सपरिकराः सानुचरा दासदासीजनपरिवृताः स्वात्रयुताः परिहितदुकूला मुखसुरङ्गताम्बूलाः स्वर्णवटितहीरकजटितराखडीतिलकाः कस्तूरीपेत्रवल्लिराजितकपोलफलका जंबाधिमहमहायमानमस्तकालका देशविख्यातमहेभ्यपतिका गजगतिकाः शोभायमानकर्णस्वर्णकुण्डला मुक्ताफलदीनारमालादिविभूपितकण्ठकन्दलाः सुवर्णरत्नमुद्रिकाकङ्कणाः सर्वकार्यचातुर्यप्रवीणा लहलहायमानत्रिसरचतुःसरहारस्वर्णनिगो( ? )दराः सर्वाङ्गाभरणसुन्दरा देवाङ्गनासोदराः सन्ति । पासदत्तस्य पत्नी पुनः सामान्यवना जीर्णकञ्चुका जीर्णकौसुम्भोत्तरीया त्रपुमयकर्ण कुण्डला ताम्बूलरहितमुखकमला मलीमसमस्तककुन्तला कङ्कणमुद्रिकाझञ्झरकमुक्तहस्तयुगला दारिद्र(घ )कर्मकरणकर्कशकरा (स्वजनाकृतादरा) निधेनवरा वराका गृहकोणके स्थिता लज्जासमाना अप्राप्तस्वजनमाना हृदये चिन्तयामास-जगन्मध्ये कस्याः कोऽपि वल्लभो नास्ति । यतः" वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः पुष्पं पर्युषितं त्यजन्ति मधुपा भ्रष्ट नृपं सेवकाः। निद्रव्य पुरुषं त्यजन्तिं गणिका दग्धं वनान्तं मृगाः सर्वःस्वार्थवशाजनोऽभिरमते नो कस्य को वल्लभः॥१२॥" १. हर्षस्य कारणं' इति ड-पाठः। २ 'पारमलपत्र.' इति ख-पाठः । 'जवादिम.' इति क-पाठः। ४ 'शोभमानाः ' इति ख-पाठः । 'काडम्बरमुक्त' इति क-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy