SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १६ श्रीजिनसूरमुनिवर्यविरचिता । चिन्ता न कार्या । परं अस्य बालस्य मन्नाम्ना नाम देयं, यथा चिरञ्जीवी स्यात् । पित्रोक्तम्-तव किं नाम ? देव आह- प्रियङ्कर इति । ततः पुत्रस्य तदेव नाम दत्तम् । पित्रोक्तम् - एष बालको देवनाम्ना मरो भूयात् । पुनर्देवेनोक्तम्- विषमकार्ये सङ्कटे वाऽऽपतिते अत्रागत्य मत्स्थाने वृक्षाग्रे भोगः कार्यः । यथा युष्माकमहमाशां पूरयामि । यतः -- " भोगेन देवास्तुष्यन्ति, भोगेन व्यन्तराः सुराः । भोगेन भूतप्रेताथ, भोगो विघ्नविनाशकः ॥ ५७ ॥ " ततः श्रेष्ठी विजयमुहूर्ते नगरे प्रवेशं करोति तदा दक्षिणः खरोऽभूत् । खराष्टकं तत्कृतम् । श्रेष्ठी हृष्टः । यतः - " निर्गमे वामतः श्रेष्ठः, प्रवेशे दक्षिणः शुभः । पृष्ठतश्च न गन्तव्यं, सम्मुखः पथभञ्जकः ॥ ५८ ॥ प्रथमे हानिदं शब्दं द्वितीये सिद्धिदायकम् । तृतीये च न गन्तव्यं, चतुर्थे स्त्रीसमागमः ॥ ५९ ॥ पञ्चमे च भयं विन्द्यात्, षष्ठे तु क्लेशमेव च । सप्तमे सफलं कार्य, अष्टमे लाभमादिशेत् || ६० ॥" श्रेष्ठी सुशकुनैः स्वगृहे पुत्रसहितः प्राप्तः सुखेन धर्मकर्माणि करोति । प्रियङ्करः पुत्रो दिने दिने पितुर्मनोरथैः सह वर्धते ॥ अस्मिन्नसवरे प्रिय श्रीनाम्न्याः पितृगृहे निजभ्रातृ विवाह महोत्सवो जायमानोऽस्ति । तदाकारणाय भ्राता समागतः । सा सहर्ष स्वामातृधाम्नि भ्रात्रा सह गता । यतः - १' स्वराष्टकं च तेन कृतम्' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy