________________
प्रियङ्करनृपकथा |
१५
पितृभ्यां प्रोक्तम् - अस्य बालस्य राज्येनास्माकं प्रयोजनं नास्ति, किन्तु जीवितव्येन । यतः -
" द्वात्रिंशल्लक्षणो मर्यो, विनाऽऽयुर्नैव शस्यते । सरोवरं विना नीरं, पुष्पं परिमलं विना ॥ ५४ ॥
एकः प्राङ् मृतः । द्वितीयस्याशा क्रियमाणाऽस्ति । परं सा दैवायत्ता । ततो द्वितीयवारं वृक्षादाकाशवाण्यभूद्, यथा" ऐ बालक चिरं जीवसह, होसह धननी कोडि ।
>>
सेवा करसह रोयसुअ, सेवक परि कर जोडि ॥ ५५ ॥ ततो मातृपितरौ हृष्टौ । एषा देववाणी घटते । उपरि विलोकितं, परं ताभ्यां देवः कोऽपि न दृष्टः । पासदत्तेनोक्तम् - प्रायः प्राणिनां पुण्यं विना देवदर्शनं न स्यात् । यथा—
44 यस्य पुण्यं परोत्कृष्टं, प्रत्यक्षास्तस्य देवताः । कल्याणकेऽर्हतां देवाः, सेवाकरणतत्पराः ॥ ५६ ॥ " ततः श्रेष्ठिना पृष्टम् - कोऽयं देवः, किन्नामा ? कैस्मादस्मदुपरि वात्सल्यम् ? | देवः प्राह-अहं त्वत्पुत्रो यो मृतः । त्वदुक्तनमस्कारमहामन्त्रश्रवणेनाहं धरणेन्द्रपरिवारमध्ये देवो जातोऽत्र तिष्ठामि । मातुः पितुर्भ्रातुः स्नेहेन राज्यप्राप्तिं यावत् सान्निध्यं करिष्यामि । एष माता भाग्याधिकोऽस्ति । तेन युवाभ्यां कापि
१ तात्पर्यम्—
अयं बालकश्चिरं जीविष्यति भविष्यति धनस्य कोटिः । सेवां करिष्यन्ति राजसुताः सेवका इव करौ संयोज्य ॥
२ ' रायसुतं ' इति ख- पाठः ।
३ ' दकस्मादुपरि ' इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org