________________
श्रीजिनसूरमुनिवर्यविरचिता । - अत्र बुद्धिचतुष्टयकथा। गुणाकरेण पञ्चशत्या एकैका बुद्धिगृहीता । सा सफला जाता । सा स्वयं वाच्या ।
ततः सहकारतले स्थितो देवपूजां कृत्वा श्रेष्ठी भुक्तः क्षणं विश्रान्तश्चिन्तयति-नगरमध्ये कथं व्यवसायो भविष्यति १ नीवीं विना लाभो न स्यात् । यत उक्तं च
" दुग्धं देयानुसारेण, कृषिर्मेघानुसारतः । लाभो नीव्यनुसारेण, पुण्यं भावानुसारतः ॥५१॥"
वस्त्राद्याडम्बरं विना श्रीनगरे श्रीः कथं स्यात् १ । उद्धारं । केपि नार्पयन्ति । यत:
"आडम्बराणि पूज्यन्ते, स्त्रीषु राजकुलेषु च । सभाया व्यवहारे च, वैरेषु श्वसुरौकसि ॥५२॥" तावता अकस्मात् आकाशवाणी जाता, यथा" ए बालक ए नगरनु, राजा होसि जाणि ।
पनरे वरसे पुण्यबलइ, चिंता ही इम आणि ॥ ५३॥" १ 'तरौ स्थित्वा' इति क-पाठः । २ 'विश्रान्तयति । आनं तुष्टाव यथामञ्जरीमिः पिकनिकरं रजोमिरलिनं फलैश्च पान्थगणम् । मार्गे सहकार! सततमुपकुर्वन् नन्द चिरकालम् ॥ इत्याशिषं दत्त्वा नगर' इति ख- पाठः।। ३'निमीयं' इति क-पाठः । ४ 'द्रव्यानु०' इति क-पाठः ।
५ ' उद्धारे कोऽपि नार्पयति' इति ख-घ-पाठः । ६ 'सुरसेषु च ' इति कपाठः। ७ तात्पर्यम्अयं बालकोऽस्य नगरस्य राजा भविष्यति ( इति ) जानीहि । पञ्चदशवर्षे पुण्यबलेन चिन्तां हृदि मा आनय ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org