________________
प्रियङ्करनृपकथा |
१३
अविद्धत्वात् पूर्णायुरावलिः सुतो भविष्यति । तच्छ्रुत्वा सा प्रभुदिता । ततः सुनक्षत्रे शुभलग्ने शुभवेलायां पुत्रो जातः । तस्य र्धापनं कृतम् । कियदिनानन्तरं श्रेष्ठी सपुत्रः शुभमुहूर्ते 'अशोक'गरं प्रति प्रस्थितो मार्गे शकुनान् मार्गयति तावता एकः प्राऽभक्ष्यमुखो दक्षिणाङ्गाद् वामपार्श्वे समागतः । श्रेष्ठिना शकुनवित् पृष्टः कीदृशाः शकुनाः १ । तेनोक्तम् वर्याः, नगरवासे सर्वसिद्धिर्भविष्यति । यत उक्तम्
" गच्छतां च यदि वा स्याद्, दक्षिणाद् वामवर्तकः । सर्वसिद्धिस्तदा नूनं, वानेन कथितं ध्रुवम् ॥ ४८ ॥ " ततः स एव श्वा कर्णौ कण्डूययामास । तदा शकुनविदा प्रोक्तम् वर्याद् वर्यतरं भविष्यति । अधिकां सम्पदं पश्यामि, यतः" गच्छतां च तदा श्वानः, कर्ण कण्डूयते पुनः ।
.
द्रव्यलाभं विजानीयात् महत्त्वं च प्रजायते ॥ ४९ ॥ " ततः श्रेष्ठी शकुनग्रन्थिं बद्ध्वा सपरिवारोऽग्रे चलितः । क्रमेणा ' शोकपुर ' परिसरे प्राप्तः श्रेष्ठी ग्राह-अत्र वाटिकायां भोजनं कृत्वा नगरे प्रवेशः क्रियते । यत उक्तम्
66
१ ' गच्छतां च यदा श्वानो, अमेध्यं भक्षयेद्यदि । मिष्टान्नाशनपानानि प्राप्नोति पुरुषो ध्रुवम् ॥
>
इति ख- पाठो निम्नलिखितपद्याधिको वर्तते ।
66
अभुक्त्वा न विशेद् ग्रामं, न गच्छेदेकको ऽध्वनि । ग्राह्यो मार्गे न विश्रामः, पञ्चोक्तं कार्यमाचरेत् ॥ ५० ॥"
धान्य पूर्णमुखो लाभं, विष्टापूर्णमुखः सुखम् । सद्यो मांसमुखी राज्यं, दत्ते दृष्टः शुनीसुतः ॥ १ ॥” ' चलति ' इति क-पाठः ।
Jain Education International
-
For Private & Personal Use Only
-
www.jainelibrary.org