________________
१२
श्रीजिनसूरमुनिवर्यविरचिता ।
"पुत्रः १ पशुः २ पदाति ३ श्व, पृथिवी ४ प्रमदा५ऽपि च । कुल श्रीवृद्धिदाः पञ्च, कुलश्रीक्षयदा अपि ॥४४॥"
तेनात्र क्षणमात्रमपि न स्थास्यते । स्त्रीकदाग्रहात् श्रेष्ठिना मानितम् । यतः
" राज्ञा स्त्रीणां च मूर्खाणां, बालकानां तथैव च । अन्धानां रोगिणां चापि, बलवांश्च कदाग्रहः ॥४५॥"
ततः श्रेष्ठी नगरे वासाय सुमुहर्ते यावच्चलति तावद् द्वाराग्रे कण्टको भनः पादे तस्य । चिहगा(शकुना?)भावात् स्थितः । ऊक्तं च
"छीऐ वत्थविलग्गे कह कह भणिए झत्ति कंटए भग्गे।। दिहे बिलाडसप्पे न हु गमणं सुंदरं होइ ॥४६॥"
ततः कियद्भिर्दिनै रात्रौ प्रियश्रिया भूमि खनन्त्या मुक्ताफलं महत्तरं तेजःपुञ्जमयमविद्धं लब्धमिति स्वप्नो लेभे । प्रातः पति प्राह । सोऽप्युवाच विमृश्य-प्रिये ! आत्मनोः पुत्रो महत्त्ववान् भविष्यति मुक्ताफले यथा पानीयं तथा महत्त्वम् । यतः
" नेखइ नारितुरङ्गमह मुत्ताहल खग्गह । पाणी जाह न अग्गलु मउ गिरुअत्तम ताह ॥४७॥" १ छाया
क्षुते वस्त्र विलने कथं कथं(कुत्र) भणिते झटिति कण्टके भने। दृष्टे बिलाडस न खलु गमनं सुन्दरं भवति ॥ २ तात्पर्यम्नखे नारितुरङ्गमयोः मुक्ताफलखनयोः । पानीयं येषां न अग्रलं, गतं गुरुत्वं तेषाम् ॥ ३ जाहे न अगलां गिउ गुरुह तण कह ' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org