________________
११
प्रियङ्करनृपकथा । यदि पुत्रो दत्तस्तर्हि वियोगः कस्मात् कृतः १। दत्त्वा पश्चात् ग्रहणं सतां नोचितम् । यतः
" जई देसि देव ! तुट्टो मा जम्मो देसि माणुसे लोए । अह जम्मं मा पुत्तं अह पुत्तं मा विओगं च ॥ ४१ ॥" प्राणनाथ ! अत्र पुत्रदुःखं नित्यं स्मरामि । तेन 'अशोकपुरे नगरे गम्यते तदा वरम् । भोंक्तम्-प्रिये ! नगरे स्थीयते, परं जलेन्धनतक्रादि सर्व धनेनैव लभ्यते । व्यवहारिणां नगरे वासः, दरिद्राणां तु ग्रामे वासो युक्तः । अधुना नगरे आत्मानं कोपि नोपलक्षयति धनाभावात् । यत उक्तम्
" हे दारिद्र(घ)! नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । पश्यामि सकलान् लोकान् , न मां पश्यति कश्चन ॥ ४२ ॥"
धनं विना मित्रमपि न स्यात् । उक्तं च"जिणि दिनि वित्त न अप्पणइ, तिणि दिनि मित्त न कोइ । कमलह सूरिज मित्त पुण, जल विण वयरी सोइ ॥४३॥"
प्रिया प्राह पति प्रति-प्रायः पुरुषाः परिणामसुन्दरबुद्धयो भवन्ति तथापि मद्वचः शृणुत । अस्यां भूमिकायां राङ्का(रङ्क) श्रेष्ठिवदात्मलभ्यं नास्ति । यत उक्तम्१ छायायदि ददासि दैव ! तुष्टो मा जन्म ददासि मानुषे लोके ।
अथ जन्म मा पुत्रं, अथ पुत्रं मा वियोगं च ॥ २ तात्पर्यम्यस्मिन् दिने वित्तं न आत्मनि तस्मिन् दिने मित्रं न कोऽपि । कमलस्य सूर्यो मित्रं पुनर्जलं विना वैरी सोऽपि ॥ ३ सद्वचः' इति क-घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org