________________
श्रीजिनसूरमुनिवर्यविरचिता ।
" संसारभारखिन्नानां, तिस्रो विश्रामभूमयः ।
अपत्यं च कलत्रं च, सतां सङ्गतिरेव च ॥३६॥" - यात्रता पुत्रो वार्षिकोऽभूत् तावद् बालरोगेण मृतः । मातुमहादुःखं जातम् । यत उक्तम्
"नारीणां प्रिय आधारः, स्वपुत्रस्तु द्वितीयकः । सहोदरस्तृतीयः स्या-दाधारत्रितयं भुवि ॥ ३७॥" स्त्रीणामाधारः पुत्रः स्यात् । मनोनिवृतिकारणं पुत्रं विना भृशं दुःखिनी जाता । यतः
" ग्रामे वासो दरिद्रत्वं, मूर्खत्वं कलहो गृहे । पुत्रैः सह वियोगश्व, दुःसहं दुःखपञ्चकम् ॥ ३८॥"
ततः प्रियं प्रति पत्नी प्राह । अत्रागमने तादृग् धनप्राप्तिनोंभूत् । पुत्रोऽपि विपन्नः । लाभमिच्छतो मूलहानिरायाता । तेनाधर्मवतां ग्रामे वसनं न युक्तम् । यतः
" यत्र विद्यागमो नास्ति, यत्र नास्ति धनागमः। न सन्ति धर्मकर्माणि, न तत्र दिवसं वसेत् ॥ ३९॥" तथाच"कुग्रामवासः कुनरेन्द्रसेवा
कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च
षड् जीवलोके नरका भवन्ति ॥ ४० ॥" पुनः प्रियश्री पुत्रस्नेहदुःखेन दैवमुपालभ्य प्रार्थयति । १ 'दुःखी जाता माताऽयातनसा' इति ख-पाठः, 'दुःखिनी जाता प्रियश्रीः तदा ' इति तु घ-पाठः। २'सा' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org