________________
प्रियङ्करनृपकथा ।
एवमेवेति । राजा तद्वाक्ये राज्यगर्वेण गजनिमीलिकां विधाय राज्यं करोति, परं
" स्वचित्तकल्पितो गर्वः, कस्य नाम न जायते ? | उत्पाट्य टिट्टिभः पादौ, शेते भङ्गभयाद् र्भुवः ॥ ३२ ॥” इत तत्रैव पुरे पासदत्तश्रेष्ठी महाश्रावको भार्याप्रियश्रीयुतो वसन् कर्मयोगेन निर्धनो जातः । ततो नगरं मुक्त्वा आसने 'श्रीवास' ग्रामे बहुकौटुम्बिक निवासे वसति, सुखेन निर्वाहं करोति । यत उक्तम्
17
" नवमन्नं नवं शार्क, सुगन्धाज्यं दधीनि च । स्तोकव्ययादि ग्रामे, क्रियते मिष्टभोजनम् ॥ ३३ ॥ पैरं तत्र बहूपक्रमकरणेऽपि धनं नोत्पद्यते । यतः - " यत्र तत्रापि यातानां, पूर्व कर्म सहानुगम् । देशान्तरं न याति स्म, श्रुत्वा बौलावचः कृती ॥ ३४ ॥ " धनं विना महत्वमपि न स्यात् । यतः - धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते धनैरेव पापात् पुनः निस्सरन्ति । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्जयध्वं धनान्यर्जयध्वम् ।। ३५ ।। " तावता तयोः पुत्रो जातः । हर्षोऽभूद् दारिद्र्येऽपि । यतः
44
१' विद्यते ' इति घ- पाठः । २ ' उत्क्षिप्य ' इति ख- पाठः । ३ ' दिवः ' इति क- पाठः । ४ ' हमेव लभ्यन्ते मिष्ट० ' इति ख- पाठः । ५ ' परं धनं नोत्पद्यते बहुपराक्रमकरणेऽपि' इति ख- पाठः । ६ ' बालवचः ' इति ख- पाठः । ७ — धनैः पुनः पापाज्जना निस्तरन्ति ' इति ख- पाठः । ८ ' उभयोः' इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org