________________
श्रीजिनसूरमुनिवर्यविरचिता ।
राजेन्द्र ! न प्रष्टव्यम्, अकथिते स्तोकं दुःखं, कथिते तु महद् दुःखं भविष्यति । राज्ञा विशेषतः पृष्टः स प्राह-लक्षमूल्यों हारो यत्समीपाल्लप्स्यसेस तव पट्टे राजा भविष्यति, नात्र संशयः, देवतोक्तत्वात् ; परं बहुभिवः । प्रत्ययोऽत्र-इतस्तृतीयदिने हस्ती मरिष्यति । राजा कर्णयोस्तप्तत्रपुप्रायं तदाकर्ण्य क्षणं मूञ्छित इव तस्थौ । मन्त्री प्राह-चिन्ता न कार्या । भवितव्यता केनापि न टलति । यतः
" भवितव्यं भवत्येव, नारिकेल फलाम्बुवत् ।
गन्तव्यं गमयत्येव, गजभुक्तकपित्थवत् ॥ २९ ॥" तृतीयदिनेःगजो विपन्नः । तदुक्तं सत्यं जातम् । उक्तं च"अवश्यं भाविभावानां, प्रतीकारो न विद्यते । __ तदा दुःखैर्न बाध्यन्ते, नलरामयुधिष्ठिराः ॥ ३० ॥ उदयति यदि भानुः पश्चिमायां दिशायां
विकसति यदि पनं पर्वताने शिलायाम् । प्रचलति यदि मेरुः शीततां याति वह्निः
तदपि न चलतीयं भाविनी कर्मरेपा ॥ ३१ ॥" ततो राजा साहसं कृत्वा स्वपुत्रस्य विवाहं महता महेन कारितवान् । हारगमनविवाहभवनाभ्यां नृपो विषादहर्षभाग जातः । राजा मन्त्रिणं प्रत्याह-हारतस्करस्य किञ्चिद्ज्ञेन राज्यं प्रोक्तं तदसम्भाव्यम् । तस्य(स्मै) शूल्यामेव राज्यं दास्यामि । मत्पुत्रा एव मद्राज्यं पालयिष्यन्ति । मन्त्रिणोक्तम्-स्वामिन् ! १ 'यच्च यात्येव' इति क-घ-पाठः । २ क-घ-प्रत्यां नोपलभ्यते पद्यमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org