________________
प्रियङ्करनृपकथा ।
पहपहियस्स समुहा छीया मरणं नरस्त साहेइ ।
वज्जेह दाहिणंपि य वामापि धियसिद्धिकरा ॥ २७ ॥" ततो राज्ञा हारः स्वकोशे स्थापितः । पुनः अपरमुहूर्ते भाण्डागाराद् हारं नृप आनाययामास । भाण्डागारिणा तत्र विलोक्य राज्ञोऽग्रे विज्ञप्तम्-राजन् ! तत्र हारोऽदृश्यमानोऽस्ति । केनापि गृहीतः । नृपः प्राह-अत्र कोऽन्यो मुमूर्षुरायाति । भाण्डागारिकेणोक्तम्-चेदहं जानाम्यपि तदा दिव्यं करोमि शपथान् करोमि । मन्त्री प्राह-अज्ञात्वा कस्यापि न वाच्यम् । यतः
" अविमृश्य कृतं कार्य, पश्चात्तापाय जायते ।
न पतत्यापदाम्भोधौ, विमृश्य कार्यकारकः ॥२८॥" तेन पटहं मन्त्रिवचनानपो दापयामास, यथा
'देववल्लभ'हारस्य, शुद्धिं यः कथयिष्यति ।
सन्तुष्टो नृपतिस्तस्मै, दास्यति ग्रामपञ्चकम् ॥१॥ इत्युच्चारणपूर्वकं सप्त दिनानि सर्वत्र सेवकैः पटहो दत्तः । परं च केनापि वाद्यमानः स न स्पृष्टः । ततो राज्ञा ज्योतिविदः पृष्टाः । ते प्रोचुः--राजन् ! हारो न यास्यति । पुनस्तत्रैको भूमिदेवनामा कश्चिज्ज्योतिषिको वसति । तमाकार्य नृपः पृष्टवान् हारलाभम् । तेनोक्तम्-राजेन्द्र ! अद्य रात्री विलोक्य कथयिष्यामि । तदिनं दत्त्वा प्रातराहूतः सः। तेनोक्तम्१ छाया
पथप्रस्थितस्य संमुखा क्षुता मरणं नरस्य कथयति ।
वर्जयत दक्षिणामपि च वामाऽपि धृतिसिद्धिकरा ॥ २ 'राजेन्द्र ! तत्र हारो नास्ति' इति घ-पाठः। ३ ' मन्त्रिणः प्रोचुः राज्ञोऽप्रे-अज्ञात्वा' इति ख-पाठः। ४ ' स्थापितः' इति क-घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org