________________
श्रीजिनसूरमुनिवर्यविरचिता । सर्वेऽपि लोका हृष्टा विस्मिताः । 'देववल्लभ' इति नाम हारस्य दत्तम् । स्वर्णकारा वस्त्रधनादि दत्त्वा विसर्जिताः । मुहूर्तविदो राज्ञा पृष्टा मुंहूतं विलोकयन्ति । तैर्विलोक्य प्रवरः क्षणः प्रोक्तः। ततो मौहूर्तेः नृपो मुहूर्तसमये हारमावाप्य यावत् स्वकण्ठे स्थापयति तावत् अकस्मात् सभामध्ये नैऋत्यकोणे छिक्का जाता।
राज्ञोक्तम्-कीदृशी एषा ? । शास्त्रज्ञेनोक्तम्-राजेन्द्र ! सामान्या । यत उक्तम्"ठाणहियस्य पढम नियकज्जं किंपि काउकामस्स । होइ सुहा असुहावि य छीआ दिसिविदिसिभेएणम् ॥ २४ ॥ पुव्वदिसा धुवलंभो १ जलणे हाणी २ जमालए मरणम् । नेरइए उव्वेओ ४ पच्छिमीए परमसंपत्ती ५ ॥ २५ ॥ वायव्वे सुहवत्ता ६ घणलाहो होइ उत्तरे पासे ७ । ईसाणे सिरिविजओ ८ रज्जं पुण बंभठाणंमि ९ ॥ २६ ॥
१ — विलोक्य विस्मिताः' इति ख-पाठः । २ 'दत्तं हारस्य' इति ख-पाठः। ३ ' मुहूर्त विलोक्य तैः' इति ख-पाठः, ' मुहूर्त व्यलोकयन्' इति ग-पाठः, मुहूर्त लोकयित्वा' इति घ-पाठः। ४ छायास्थानस्थितस्य प्रथमं निजकार्य किमपि कर्तुकामस्य । भवति शुभाऽशुभाऽपि च क्षुता दिग्विदिग्भेदेन ॥ १ ॥ पूर्वदिशि ध्रुवलाभः ज्वलने (अमिकोणे) हानिः यमालये (दक्षिणस्यां) मरणम् । नैर्ऋत्यां उद्वेगः पश्चिमायां परमा सम्पत्तिः ॥ २ ॥ वायव्ये सुख(शुभ)वार्ता धनलाभो भवति उत्तरे पार्थे । ईशाने श्रीविजयौ राज्यं पुनः ब्रह्म(ऊर्ध्व)स्थाने ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org