________________
प्रियङ्करनृपकथा।
भुजिक्रिया पश्चिमायां, वायव्यां धान्यसङ्ग्रहः । उत्तरस्यां जलस्नान--मैशान्यां देवतागृहम् ॥ २२ ॥"
आवासं चित्रकराश्चित्रयन्ति । स्वर्णकारा आभरणानि घटयन्ति । अस्मिन्नवसरे 'पाडली 'पुरात स्वर्णकारा देवतादत्तवरा आगेता राज्ञो मिलिताः प्रधानैः स्वागतं पृष्टम् । राज्ञा ते पृष्टा विज्ञानस्वरूपम् । ते प्रोचुः--देवतावरादस्मद्घटितमाभरणं यः परिदधाति तस्य राज्याहस्य राज्यं भवति । अपरेषां जनानां महत्त्वं स्यात् । यः प्राग राजा भवति स राज्ञामधिराजा स्यात् । राजा तद्वचनेन हृष्टस्तेषां अपूर्वहारघटनायादेशं दत्तवान् । स्वर्णमुक्ताफलजात्यहीरकरत्नादि यद विलोक्यते तत् कोशाधीशपार्श्व ग्राह्यम् । आप्तपुरुषास्तत्र नियुक्ताः । यतः केषामपि विश्वासो न कार्यः । उक्तं च
" ताइ तेली तेरमउ, तंबोली तलार । ठंग ठक्कुर अहि दुजणह, जे वीससइ ते गमार ॥२३॥" ततस्तैः षण्मास्या हारो घटितः । राज्ञो वर्धापनिका दत्ता। प्रभाते राजसभायां हार आनीतः । राजा तं हारं दृष्ट्वा हृष्टः ।
१ 'मस्यां' इति घ-पाठः। २ 'आगताः' तै राज्ञोऽने उक्तम्-'अस्मद्घटितान्याभरणानि यः परिदधाति' इति ख पाठः । ३ 'राजाधिराजः' इति ख-घ-पाठः । ४ तात्पर्यम्वस्त्रतानके तैलकारे मौचिके (2) ताम्बूलिके तलारक्षके ।
ठगे ठकुरेऽहौ दुर्जने यो विश्वसिति स मूर्खः ॥ ५'तक्कड तीड सोनार' इति क-पाठः। ६ 'पंच तकारा परिहरु पछ्इ करु विवहार' इति घ-पाठः। ७ 'प्रातः' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org