________________
प्रियङ्करनृपकथा |
प्राप्नोत्यपुत्रः सुतमर्थहीनः श्रीदायते पत्तिरपीशतीह । दुःखी सुखी चाथ भवेन्न किं किं त्वद्रूपचिन्तामणिचिन्तनेन १ ॥ १४ ॥
एकया गाथयाऽप्यस्य, स्तवस्य स्मृतमात्रया । शान्तिः स्यात् किं पुनः पूर्ण, पञ्चगाथाप्रमाणकम् १ ||१५|| उपसर्गाः क्षयं यान्ति, च्छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, ध्यातेऽस्मिन् स्तवपुङ्गवे ।। १६॥ यथा प्रियङ्करो राजा, विपुलां प्राप सम्पदम् । उपसर्गहरस्तोत्र - ध्यानान्मानाश्रितं पदम् ॥ १७ ॥
३
अत्र प्रियङ्करनृपकथा, यथा
'मगध 'देशे ' अशोकपुरं नाम नगरम् । यत्रावासाखिभूमिका महेभ्यानाम्, यत्रार्कराः सकलवस्तूनाम्, आदरोऽतिथिंभोजने, आज्यानि प्राज्यानि भोजने, आदिमूर्तिः प्रासादे, आलस्यं विवादे, आडम्बराणि राजकुले, भोग्युपद्रवो नकुले, नापरत्र । तत्राशोक (चन्द्र) राजा राज्यं करोति प्रतापी विक्रमी नयी । अशोकमाला पट्टराज्ञी पुष्पमालेव विवेकविनयशीलक्षमादिगुणपरिमलयुता । तयोः पुत्रास्त्रयः अरिसूर १ रणसूर २ दानसूरा ३ ख्याः । देवगुरुपितृमातृभक्ताः । राज्यसारं त्विदमेव । उक्तं च
.
२ ' पठ्यमाने स्तवे सदा ' इति ख- पाठः । ३ ०गारः ' इति घ-पाठः । ४ ' ० थिजने पूज्याभिः पूज्यश्रीयुगादि -
१ वा प्रभवे न किं किं ' इति ख- पाठः ।
"
.
मूर्त्तिः' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org