SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिता। उदयो १ चपदो २ पाया ३, उत्तमत्व ४ मुदारता ५। उकाराः पञ्च पुंसः स्यु--रुपसर्गहरस्मृतेः ॥६॥ पुण्यं १ पापक्षयः २ प्रीतिः, ३ पद्मा ४ च प्रभुता ५ तथा । पकाराः पञ्च पुंसां स्युः, पार्श्वनाथस्य संस्मृतौ ॥ ७॥ उपसर्गहरस्तोत्र-मष्टोत्तरशतं सदा । यो ध्यायति स्थिरस्वान्तो, मौनवान् निश्चलासनः॥८॥ तस्य मानवराजस्य, कार्यसिद्धिः पदे पदे । भवेच्च सततं लक्ष्मी-श्चञ्चलापि हि निश्चला ॥९॥-युग्मम् जलेऽनले नगे मार्गे, चौरे वैरे ज्वरे गिरे ( हरेऽम्बरे १)। भूते प्रेते स्मृतं स्तोत्रं, सर्वभयनिवारकम् ॥ १० ॥ शाकिन्यादिभयं नास्ति, न च राजभयं जने ।। षण्मासं ध्यायमानेऽस्मि-त्रुपसर्गहरस्तवे ॥ ११ ॥ स्तवकर्तुराशीर्वचनमाहउर्वसग्गहरं थोतं, काऊणं जेण संघकल्लाणम् । करुणायरेण विहियं, स भद्दबाहू गुरू जयउ ॥ १२ ॥ प्रत्यक्षा यत्र नो देवा, न मन्त्रा न च सिद्धयः । उपसर्गहरस्यास्य, प्रभावो दृश्यते कलौ ॥ १३ ॥ १ इमे द्वे पद्ये ख-प्रत्यां न वर्तेते, परन्तु तत्स्थाने निम्नलिखितं पद्यम्लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसन्निधेरिव नृणामुज्जाशयत्यजसा धर्मस्थाननियोजनेन गुणिभिः ग्राह्यं तदस्याः फलम् ॥१॥ २ छाया उपसर्गहरं स्तोत्रं कृत्वा येन सङ्घकल्याणम् । करुणाकरेण विहितं स भद्रबाहुर्गुरुर्जयतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy