________________
५ दम्भिकुलानन्दकथा ( पृ० ५७ श्लो० १७२ )
- >00<>'देव'पुरे कुलानन्दः श्रेष्ठी, मदनकलिका पत्नी, पुत्रो नास्ति। अतस्तन्नगग्कृताधिष्ठानायाः सप्रभावाया देव्याश्वामुण्डायाः कृतमुपयाचितं श्रेष्ठिन्या-यदि मे त्वत्प्रसादात् पुत्रो भावी तदा लक्षत्रयमयीं पूजां करिष्यामि इति ।
जातः क्रमेण पुत्रः। भर्ने कथितं तदुपयाचितम् । तेनापि 'युक्तम्' इति भणता लक्षण लक्षेण निष्पन्नं पुष्पत्रयं हैमं सरत्नं घटितम् । सपरिजनेन गत्वा पूजापूर्वं तत् पुष्पत्रयं देव्या भाले भुजयोश्च किल पूजायै न्यस्तम् । श्रेष्ठिना स्वस्य पत्न्याः शिशोश्च शेषापदं गृहीतम् । यथास्थानं च जग्मे शठमौलिमौलिना।
देवी विलक्षा सती सहियडनाम्नो मित्रदेवस्याग्रे मनोदुःखं निवेदयितुं गता, न्यवेदयच्च यथा-देव ! कुलानन्दवणिजाहमेवं पुष्पाणामर्पणेन युक्तिपूर्वकं ग्रहणेन च वञ्चिता, किं करोमि? इति । सहियडोऽपि सदुःखं जगौ । त्वं सुखं समर्थ छुटिताऽसि, शृणु, यथाऽहमनेन कदर्थितोऽस्मि । पूर्वमस्य वाहनमन्तर्वाधि प्रवासितं गतम् । कापि नामाऽपि न श्रूयते । ततोऽसौ मामेत्य 'महिषं ते दास्यामि, यदि वाहनं मे समागम्यात्' इति प्रत्यपादि। आनीतं च तत् मया स्वशक्त्या । आययुर्वार्धापनिका: उत्सवोऽस्य गृहे । यावत् प्राप्तं क्षेमेण वहित्रम् । विक्रीतं वस्तु, लाभोऽप्यमेयः । मया याचितोऽसौ स्वप्ने । सोऽपि तरुणमहिष१ विनोदकथासङ्ग्रहे २५मा कथा मुद्रिता। तदाधारेण दीयतेऽत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org