________________
२२
कथानकम्
शुकेन्द्रोऽपि तस्यास्तत्परिवारस्य च दृष्टिं परिहरन ध्वान्ते धान्यकणानुपजीवंस्तदंसे च वसन् क्रमादुद्गतपक्षः संवृत्तः पुष्टाङ्गः पूर्ववत् । ततस्तादृग्वैरनियोतनार्थी निशि उड्डीय तत्र गोविन्दभवने प्राप्तः, यत्र सा गणिका भक्तमना नित्यं नित्यमेति । प्रभूतपुष्पपूजितस्य हरेरङ्गैकदेशे पुष्पपिहितस्तस्थौ। ___ सार्धप्रहरमात्र गतेऽहनि समागता सा गणिका, ननाम च महाभक्त्या हरिम् । अत्रान्तरे कालज्ञः शुकः प्रोल्ललाप प्रौढस्वरम्-भद्रे ! तव भक्त्या तुष्टोऽस्मि विष्णुरहम्, त्वां वैकुण्ठभवनं नाम प्रसिद्ध स्वभवनं विमानेन नेष्यामि, मात्र भ्रान्ति कार्षीः। एवं शुकोक्तमपि शुकादर्शनात् सा मुकुन्दगदितमिति प्रतीयाय । ततः सञ्जातपुलका प्राह-भगवन् ! महत्प्रसादो मय्ययम्, किमन्यद् गवेष्यते ? कथय कदा तत्र नेष्यसि ? किं चाहं दानपुण्यादिकं करोमि ? इत्युक्ते पुनः प्राह- भद्रे ! आसनायामस्यामेव दशम्यां सर्वस्वं दत्त्वा, गृहं च पात्रशः कृत्वा परिवारमपि विसृज्य मुण्डितमुण्डा कजलकरम्बितमुखी दण्डिखण्डितनिवसना सपौरजनपदा मद्गृहाङ्गणमापतेः मध्याहे । शुक एकः समीपस्थं रसालमारूढो दर्शिष्यते तेनाभिज्ञानेन श्रद्धातव्यं यथा किङ्किणीरणरणायमानं सकृष्णं विमानमप्येष्यति इति । एवमुक्ते प्रत्येति स्म सा। गच्छति स्म सदनम्, चकार सर्वे तदुपदिष्टम् । धृतर्लोभिष्ठो बाध्यते । आगता सा दशमी। कृता सा सामग्री । मेलितो महाजनः । आगता पूर्वोक्तसमाचरणपरा पण्यस्त्री । प्रसृता देशेऽपि वार्ता। यावत् संववृते द्विप्रहरी । अत्रान्तरे समागतः स शुको माकन्दशाखायाम् । ददर्श च तं लोकः, उवाच च-'लिङ्गदर्श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org