________________
अन्तर्कथासु
२१
1
मानो निषेध्यः । पुत्रं पुनः प्रोवाच- त्वयाऽप्यस्य शुकस्य वाक्यमनास्थया न श्रव्यम्, किन्तु तवधिया । पुत्रोऽपि तथाss | मृतः श्रेष्ठी । गतानि वर्षाणि द्वित्राणि ।
अथ केदारो नगरान्तश्चरन् कामपताकाख्यां प्रौढवेश्यां दृष्ट्वा तदासक्तो जातः । तत्रैव तिष्ठति प्रायः । यदा तु गृहमेति तदा शुक उपालभते - त्वं क स्थित इयत्कालम् १ मा स्म विस्मार्थीस्तानि पितुर्व्याहृतानि । केदारकस्तूष्णीमास्ते । लब्धे च प्रसरे वेश्यायाः किङ्करी केदारस्य गृहमेति । वसु- कनकादि याचते, स्वैरं लभते । शुकस्तु तस्याः शृण्वत्या एव लालपीति — अहो श्रेष्ठिन् ! कथं गृहं मोषयसि १ धिक् त्वाम् इत्यादि । किङ्कर्यपि स्वामिन्यै व्यपप्रथत् । तत्र मन्त्रो जातः शुकोऽयमानीय हन्य। ताम्, य एवमस्माभिर्भक्ष्यं श्रेष्ठिनं तथा तथा रिरक्षिपति ।
,
एकदा श्रेष्ठिनि गृहस्थे भुञ्जाने शुक्रेऽपि दाडिमी फलशर्करादिलवशालिकणास्वादव्यग्रे वेश्याकर्मकरी समेत्य यत्तत्कार्य प्रोच्य 'अहो कीदृक शुको रमणीयः १' इति स्तुतिमिषं कृत्वा हस्ते गृहीला गतैव स्वामिन्यग्रे तं मुमोच । साऽपि तमाह — रे निर्दय ! श्रेष्ठिना क्रियमाणामस्मद्वृद्धि छिनत्सि, तस्मादनुभव चापल्यस्यास्य फलमिति गदित्वा पक्षावुदच्छिनत् । कृतो मांसपिण्डप्रायः । यावल्लोहं तीक्ष्णमादाय किल तं छेत्स्यति, लोहं च गृहीतुं गता तावदसौ शनैः शनैः कृतरिङ्खणो रसवतीसदनैकदेशस्थाऽन्नत्यागस्थानं सरसं प्राप्तः । वेश्यया तु लोहमादायाssजग्मुष्या शुको न दृष्टः, उन्नीतं यथा शकुनिकया सरसमांसलोभेन गृहीतः, किं तेन ? ' इति गवेषणनिरभियोगा तस्थौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org