________________
४ कथानकम् (पृ० २६, श्
>:०:०६३"केनापि साधं मेधावी, विरोधं विदधीत न ।
यतः शुकशकुन्तेन, यथा वेश्या विडम्बिता ॥ १॥" 'रत्न'पुरे परमरमारमणीयो रत्नसाराभिधः श्रेष्ठी। तस्य केदारकसूनुः पठितविद्यो व्यवसायाध्यवसायी कृतपाणिग्रहणो विचरति सुखम् । तस्य च श्रेष्ठिनः पुराणस्मृतिकथाख्यानाख्यायिकाविचक्षणः कलाकलापो नाम शुकः ।
कियतकालेन रुजातों मुमूर्षुः स श्रेष्ठी सुतं साञ्जसमुक्तवान्वत्स ! वयं मरणाभिमुखाः, त्वं तु नवयौवनः, यौवने च विषयविषमविषघूर्णमानदृष्टयो न किश्चित् पश्यन्ति नराः । सद्गुरूपदेशामृतसेसिच्यमानात्मानस्तु पुरुषा न वाह्य(बाध्य ?)न्ते तेन विषेण । ततः सगृहाण सदुपदेशामृतम्। स चायं सदुपदेश:___ 'अज्ञातेषु न विश्वसनीयम्, नारीषु मन्त्रो न प्रकटनीयः, मूला. नुपालनेन धनं व्ययनीयम्, विरोधः प्रोन्मूलनीयः, महाजनो रञ्जनीयः, गुरखो न खेदनीया:, आवश्यके कर्मणि न प्रमादः करणीयः, मूक्तमुक्तं रिपोरपि न दूषणीयम्, कस्यापि न च्छेदनीया कथा, चाटुकारेषु न प्रत्ययनीयम्, वेश्याः पराङ्गनाश्च वाः , धनं भार्यापुत्राधीनं न विधानीयम्, कष्टेऽपि पुरुषव्रतं न त्यजनीयम् , अदानतपरकं दिनं नातिवाहनीयम् इत्यादि । केदारकोऽपि 'तथा' इति प्रतिपेदे। श्रेष्टिना शुको समीपमानीय प्रोक्तः-शुक! त्वयाऽयं मत्पुत्रः कुव्यापारे प्रवर्त१ विनोदकथासङ्ग्रहे ५८ तमी कथा, इयं तदाधारेण दीयतेऽत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org