________________
अन्तर्कथासु
च शुद्धिं विधाय स तस्यां खानौ ययौ। तदा च स कुलालस्तत्र स्वर्णमाणिक्यभृतामेका कटाहिका लब्ध्वा इतस्ततो गोपयन्नभूत् । सोऽपि तस्य टल्लिकामेव दूरतोऽवलोक्य दृष्टा दृष्टेति च भणन् वलमानस्तेनामाणि-रे भद्र ! समागच्छ, अर्धे तव अर्ध मम इति तद्वचनमाकर्ण्य वलितः, स तदर्धभागेन बहुस्वर्णमणिधनं लात्वा गृहं गतः। अहो धन्यं जिनशासनं यत्रेदं स्तोकमपि प्रत्याख्यानं बहुफलदं जातमिति चिन्तयन् सोऽन्यदा तत्रागतानां तेषामेव गुरूणामभ्यर्णे श्रावकोऽभूत् । क्रमेण निरतिचारं श्रावकधर्ममाराध्य स द्वादशे कल्पे सुर: समजनि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org