________________
१८
कमलश्रेष्ठिकथा
गृहीत्वा ध्यानानि विरतिफलकं शीलकवचं __ समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः !॥२२॥"
(एवं कदाचिदर्थकथया, कदाचिदिन्द्रजालविनोदेन, कदाचित् प्रहेलिकाभिर्मासोऽत्यगात् ।)
अन्यदा ततश्चलनावसरेऽनुयातः स गुरुभिरूचे-हे कमल! किश्चित् प्रत्याख्यानं कुरु, हास्यसेविना तेनोचे-- "मर्तव्यं बत नेच्छया च वितथं वर्षे द्विपक्षीं विना
वक्ष्ये नाक्षतनालिकेरवदनक्षेपो न कार्यो मया । पकानेषु कवेल्लुकानि मिहिरस्नुह्यादिदुग्धानि च
दुग्धेषु च्छगणं गणीन्द्र! हरितेष्वाहारणीयं न मे ॥२३॥" अस्माभिरपि सह हास्यमिति भणितः सोऽभाणीत्"गुरुणाऽपि समं हास्य, कर्तव्यं कुटिलं विना ।
परिहासविहीनस्य, जन्तोर्जन्म निरर्थकम् ॥ २४॥" पुनर्गुरुणा भणितः सोऽवोचत-मदगृहपुरो वसतः सीमाहस्य कुम्भकारस्य टल्लिकामवलोक्य भोक्ष्ये इति प्रत्याख्यानमङ्गीकुर्वनस्मि इति तेनोक्ते लाभालाभज्ञा गुरवः ‘एवं भूयाद्' इत्यभिधायाऽन्यत्र विहरन्ति स्म । सोऽपि प्रतिदिनं गृहमागच्छन् पुरःस्थितस्य तस्य टल्लिको प्रयासं विना विलोक्य भुञ्जानस्तं नियममपालयत् ।
एकदा स कुलालो मृत्तिकामादातुं खानौ गतः, तदा गृहमागच्छता तेन तस्य टल्लिकामविलोक्यैव भोक्तुमुपाविशता स्मृतनिजनियमेन माताऽभाणि हे मातः! मयाऽद्य टल्लिका विलोकितानास्ति, तेनैतत् कृत्यं कृत्वा भोक्ष्ये । इत्यभिधाय कुलालस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org