SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अन्तर्कथासु अनिभृत सिरमङ्गं दीर्घनिम्नं वहन्ती स्मरगृहमतिलोम क्षारगन्धिः स्मराम्बुः ॥ १० ॥ सृजति बहुनखाङ्कं संप्रयोगे लघीयः स्मरसलिलपृषत्का किञ्चिदुत्कम्प्रगात्रा | न लघु न च बहु स्यात् प्रायशः पित्तला स्यात् पिशुनम लिनचित्रा ' शङ्खिनी ' राजते भोः ॥ ११ ॥ " इति शङ्खिनी स्वरूपम् । एवं पञ्चमे दिवसे हस्तिनीस्वरूपम् - “अललितगतिरुच्चैः स्थूलपादाङ्गुलीकं वहति चरणयुग्मं कन्धरा हस्वपीना । कथितकचकलापा क्रूरचेष्टातिगात्रा द्विरदमदविगन्धिः स्वाङ्गकेऽनङ्गके च ॥ १२ ॥ १५ द्विगुणकटुकषायप्रायभुग्वीतलज्जा चलदतिविपुलोष्ठी दुःखसाध्या प्रयोगे । बहुरपि च विरूक्षात्यन्तमन्तर्विशालं वहति जघनरन्धं 'हस्तिनी' गद्गदोक्तिः ॥ १३ ॥ " इति हस्तिनीस्वरूपम् । एवमाकर्णयन् स शास्त्रज्ञा अमी सूरय इति मन्यमानोऽनिशं गृहं ययौ । एवं षष्ठेऽहनि कासु तिथिष्वेताः पद्मिन्यादयः सेविताः श्रीतिमत्यो भवन्तीति गुरुभिः पृष्टो न जानामीति स माह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy