SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अन्तर्कथासु अन्यदा पुनरपि पित्रा तत्रागतानां श्रीगुणसागरगुरूणां समीपे स नीतः श्रुतपूर्वोदन्तैर्गुरुभिरधस्तादेवाचलो कनीयमित्यभिधाय धर्मकथाप्रान्ते तथैवोदीरितः सोऽवोचत् इतो विवरादष्टोत्तरशतं कीटिकाभिर्निर्गतमिति हास्यपरः सोऽन्यश्राद्वैर्हक्कितः । अन्यदा च तत्रागताः ज्ञानसागरसूरयः पूर्ववृत्तान्तमाकर्ण्य तत्प्रतिबोधाय तमाकारयामासुः । पुरस्तस्थुपि तस्मिन् धर्म कथयद्भिर्गुरुभिः पृष्टः सः - हे कमल ! वेत्सि कामभूपस्य सैन्यम् १ नेति तेनोक्ते गुरुभिरूचे -- " परिजनपदे भृङ्गश्रेणी पिकाः पटुचन्दिनो हिमकर सितच्छत्रं मत्तद्विशे मलयानिलः । कृशतनुधनुर्वल्ली लीलाकटाक्षशरावली मनसिजमहावीरस्योच्चैर्जयन्ति जगज्जितः ॥ ३ ॥" इति श्रुत्वा पण्डिता अमी गुरवः इति ध्यायन् स गृहं ययौ अथ द्वितीयेऽहनि पुनरप्यनाकारित एव तस्मिन्नागते तथैव गुरुभिरूचे - हे कमल ! स्त्रीणां भेदान् जानासि ? नेति तेनोक्ते: तैरूचे " पद्मिनी तदनु चित्रिणी ततः शङ्खिनी तदनु हस्तिनी तथा । उत्तमा प्रथमभाषिता ततो हीयते युवतिरुत्तरोत्तरम् ॥ ४ ॥ कमलमुकुलमृद्वी फुल्लराजीवगन्धिः सुरतपयसि रम्या सौरभं दिव्यम | चकितमृग गाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमन श्रीफल श्रीविडम्बि ।। ५ ।। १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy