SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ३ कमलश्रेष्ठिकथा (पृ० २४, श्लो० ८४ ) --- -- नियमनिर्वाहवतां निर्वाणशर्माणि सुलभानि । यतः" नाणं नियमग्गहणं, नवकारो नयरुई अनिहाय । पंचनयभूसिआणं न दुल्लहा सग्गई होइ ॥१॥" अपि च"अल्पीयानपि नियमः सुखाय सम्यक् प्रपालितो भवति । घटकृट्टल्लयवलोकनरूपः कमलाभिधस्येव ॥२॥" तथाहि-'श्रीपुरे' नगरे श्रीपतिश्रेष्ठिनः सुन्दरीजातः कमलाभिधानः सुतः। सम्यक्त्वमूलद्वादशवतवता पित्रा प्रतिबोधितोऽपि पुत्रो मक्षिका चन्दनमिव धर्म नैच्छत् । एकदा हि तेन पित्रा तत्रागतानां शीलन्धराचार्याणामभ्यर्णे स नीतः। असत्सम्मुखमेवावलोकनीयमित्यभिधाय धर्मोपदेशदानानन्तरं 'किमप्यवगतम् !' इति गुरुभिः पृष्टः स प्राह-अष्टोत्तरशतवारं जल्पतां भवतां कण्ठमणिरचलत् , किश्चौत्सुक्येन स बहुः चलितस्तदहं तु न ज्ञातवान् । इति गुरूणां हास्यं कुर्वन् पित्राऽयमयोग्य इत्युपेक्षितः । १ श्रीहेमविजयगणिविरचिते कथारत्नाकरे तरङ्गेऽष्टमे ८३तमा कथेयं मुद्रिताऽस्ति, किन्तु प्रत्यन्तराधारेण, न तदाधारेण दीयतेऽत्र । २ छाया ज्ञानं नियमग्रहणं नमस्कारो नयरुचिश्च निष्टा च । पश्चनकारभूषितानां न दुर्लभा सद्गतिर्भवति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy