________________
अन्तर्कथासु
११
भद्रे ! उपरितनभूमौ गच्छ ततो दुकूलान्यानीय परिधेहि । इत्युक्त्वा गृहोपरि अध्यारो निःश्रेणी पातिता ।
सोsपि मन्त्री पञ्चकुलसहितः सञ्जातहर्षस्तद्गृहमाजगाम । सर्वतः पश्यति । सा वधूः खुङ्कारेणात्मानं ज्ञापयति स्म । तामुपरि दृष्ट्वा मन्त्रिणा सर्व गुक्त्वा तां गृहीतुकामेन निःश्रेणी गृहीता । तां निःश्रेणीं स्थापयित्वा यावदारोहति तावता विप्रेण निषेधितः, प्रतिपन्नमेव स्मर । एतामेव निःश्रेणीं लात्वा याहि, यतस्त्वया एषैव गृहीता द्वाभ्यां निजहस्ताभ्याम् । अतः पञ्चकुलैर्निर्भत्सितो मन्त्री कृष्णं मुखं लात्वा भूपसमीपं गच्छति स्म ।
विप्रो राजानमुवाच - राजन् ! अयं मन्त्री अस्य भार्यया सहासक्तोऽस्ति, तेनास्य भार्यासमीपाद् अनेन तद्वीजानि सत्यानि गृहीतानि । राज्ञा इदं स्वरूपं ज्ञात्वा मन्त्रिणं ताडयित्वा तद्वीजान्यानाय्य प्रत्ययश्चक्रे । प्रातरुतानि सन्ध्यायां फलानि निष्पन्नानि भुक्तानि च । राज्ञेति प्रत्ययं ज्ञात्वा मन्त्रिणः पार्श्वात् सर्वस्वं गृहीत्वा स्वदेशान्निष्कासितः । स श्रेष्ठिनुर्नरेवरेण सर्वमन्त्रिषु मान्यतया मुख्यो मन्त्री चक्रे । क्रमेण चतुर्विधं धर्ममाराध्य सुखभाक् समजनि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org