________________
अन्तर्कथासु
द्वाभ्यां हस्ताभ्यां गृह्यते तन्मदीयमेव । यदि मया हार्यते सदाऽनेनेति प्रतिज्ञा चके। तदास दुरात्मा मन्त्री शीघ्रमेव श्रेष्ठिगृहं गत्वा तस्य भायोसकाशाद् बीजानि याचितानि, तयाऽपि मन्न्यासक्तचित्तया ग्रन्थितस्तानि निष्कास्य तस्मै दत्तानि; तत्रान्यानि क्षिप्तानि । श्रेष्ठिमनुरप्यज्ञाततद्भावः स्वगृहे आगतः ।
द्वितीयेऽह्नि कृतप्रतिज्ञौ द्वावपि नृपमन्दिरं गतौ। तत्र सभासमक्षमज्ञाततद्भावेन श्रेष्ठिपुत्रेण वीजवपनं कृतम् । प्रहराणां द्वयं त्रयं गतम्, सर्वथाऽपि नाङ्करितानि । तदा भ्रष्टप्रतिज्ञः श्रेष्ठिसुतो विलक्षीभूतः, मन्त्री च हृष्टः। तदास वणिक गृहं गतः, स्वजनैस्तद्गृहवृत्तान्तः सर्वोऽपि प्रतिपादितः, शिक्षा चेति दत्ता यत् त्वं राज्ञः पार्थात् मासमेकं याचस्व । तेनापि तथैव कृतम् । राज्ञोक्तम्एवं भवतु । गते मासे तां प्रतिज्ञां स्वीकरिष्ये ।
ततः सोऽपि श्रेष्ठिसुतः तद्विप्रमुद्दिश्य चचाल । एकस्मिन् पुरे उपानही चर्मकाराय ददे, तदने कथितम्-यद् एतां सज्जीकुरु, त्वां मुदितं करिष्ये । तेन तत् कार्य कृतम् । स कियन्मानं द्रव्यं ददाति स न लाति । अहं शतसहस्रेणाऽपि मुदितो न भवामि । झगटकपतितेन श्रेष्ठिसुतेन व्यमर्शि-दुःखोपरि दुःखम् । परं मम आपद्भेदी स एव विप्र इति ध्यात्वा चर्मकृदने प्रत्यपादि-प्रत्यागच्छन्नहं त्वां मुदितं करिष्ये इति वदन्नग्रतो गच्छति स्म । - ततः एकः कश्चिद् द्यूतकारस्तमालपति स्म-भो वणिक् ! मदीयं वामनेत्रं समय, मया त्वपितुर्ग्रहणके मुक्तमभूद द्रम्मपञ्चशती गृहीताऽऽसीत् तां गृहीत्वा मम नेत्रं देहि । श्रेष्ठिसुतोचिन्तयत्-अहो कष्टपरम्परा । अस्याः कथं छुटिष्ये १ क्षणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org