________________
बुद्धिचतुष्टयकथा
विमृश्य पन्थानं मुक्त्वा तस्थौ, एकान्ते तत्र भुक्त्वा स्वेच्छया सुप्त्वाऽग्रे गच्छति स्म । यावत् कियान् मार्ग उल्लवितस्तावत् स्ववस्तुग्रन्थि भोजनस्थाने विस्मृतं सस्मार ततः स हृतसर्वस्व इव तत्क्षणात् व्यावृत्य तस्मिन् स्थाने ययौ । अग्रे स ग्रन्थिस्तथैवास्ति । केनाऽपि न जगृहे । सोऽपि तं - लात्वा हृदि हृष्टचिन्तयति स्म, धन्यः स मे गुरुः । यद्यहमस्मिन्नेवाध्वनि जनायातयातसङ्कुले स्थितोऽभूवं तदा कथमेतस्य ग्रन्थेः प्राप्तिः स्यात् ? परं यत् तदीया तुरीया बुद्धिर्मया कृता साऽपि मे चेतचमत्कारकारिणी जाता । इति विमृशन् स्वनगरं प्राप, क्रमेण गृहं प्रविवेश । स्वजनादयो मिलिताः सम्भाषितं कलत्रं प्रच्छन्नम् ।
अन्यदा प्रच्छन्नभूतो ग्रन्थिस्तस्यै स्वभार्यायै दर्शितः । तयाऽपि गृहीत्वाऽसौ गृहान्तर्मुक्तः । ततः स श्रेष्ठिपुत्रः स्वस्वजनसहितः कमपि वस्तुसमूहं लात्वा नृपं भेटयति स्म । राजाऽपि तुष्टः सन् जगाद - भद्र ! कुत्रापि देशान्तरे भ्रमता त्वया किमप्याश्चर्यकारि वस्तु लब्धं श्रुतं वेति १ तदा श्रेष्ठिनुर्वदति स्म - राजन् ! मयाsपूर्वाणि चिमटीबीजानि प्राप्तानि सन्ति तेषामाश्चर्य महत् । तदा राज्ञा विस्मितेनाभाणि तदाश्चर्यकारणं कथम् १ स प्राहएतानि प्रातरुप्यन्ते तस्मिन्नेव दिने कर्कटीफलानि भुज्यन्ते चेति निगद्य स्थिते श्रेष्ठितनये मन्त्री तद्भार्यासक्तचित्तो वदति स्म - राजन् ! असत्यमेतत्, अयमर्थो न घटते । श्रेष्ठिपुत्रेण जगदे - स्वामिन् ! सत्यमेवास्ति, परीक्षा क्रियताम् । मन्त्रिणाऽप्यभाणि – नरेश्वर ! यदि एतदुक्तं न भवति, तदा को दण्ड एतस्य ? | राज्ञोक्तम्-त्वमेव भण । ततो मन्त्रिणा मुदितमनसा पणश्चक्रे - यदि श्रेष्ठिपुत्रोक्तं न स्यात्, तदाऽस्य गृहे यन् मया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org