________________
अन्तर्कथासु तिष्ठति, वाणिज्यं करोति । क्रमेण बहु द्रव्यमर्जितम् । धनेन प्रसिद्धोऽजनि।
अन्यदाकश्चिदारामिकः कर्कटीबीजानि तस्मै श्रेष्ठिपुत्राय प्राभृतीकृतवान् । तेनोक्तम्-हे मालिक ! किमेतत् प्राभृतकम् । मालिको विज्ञपयति-स्वामिन् ! एतेषां बीजानां प्रभावः साधीयानस्ति, श्रयताम्-एतानि प्रातरुप्यन्ते मध्याह्ने प्रफल्यन्ते, वालुक्योऽपराह्ने लूयन्ते भक्ष्यन्ते च ।श्रेष्ठिपुत्रेणोचे-न सत्यमेतत् । तदा मालिकः पुनरपि प्राह-तर्हि परीक्षा क्रियता; चेन्ममोक्तं सत्यं स्यात् तदा ममोचितं देयं, नान्यथा। श्रेष्टिपुत्रेणापि तथैव विदधे, साध्यसिद्धिः समजनि । तेन तुष्टेन टङ्ककशतद्वयं दत्त्वा स प्रमोदितः। बीजानि स्वपार्श्वे स्थापितानि । एवं यान्ति दिनानि सुखेन ।
अन्यदा तत्स्वजनैस्तस्य नामाङ्कितो लेखः प्रैष्यत, तं वाचयति स । तत्रेति लिखितमस्ति-यत् तव पितरौ त्वद्विरहज्वरातुरौ परलोकमलश्चक्रतुः, त्वद्भार्या चैकाकिनी निर्मर्यादा विद्यते, गृहं च सर्व विलसितम् । इति वृत्तान्तं ज्ञात्वा स श्रेष्ठिसूनुभृशं रुरोद, दुःखं च महद् दधौ, धिग् अहं पुत्रः, यपितृभ्यां मरणावसरे ममाऽऽस्यमपि न दृष्टम् , तस्मात् स्तोकदिनान्त: स्वपुरं प्रति चलिष्यामि इति हृदि ध्यात्वा सर्व वस्तु विक्रीय रत्नान्येव गृहीत्वा तानि बीजानि चेति सारवस्तुग्रन्थि प्रच्छन्नीकृत्य कार्पटिकवेषेण एकाक्येव चचाल स्वपुरं प्रति ।
कियन्तं मार्गमुल्लङ्घय श्रान्तोऽवस्थानं चिन्तयति स्म-तदानी पुनरपि स्वगुरुदत्तां बुद्धिं चतुर्थी स्मरति स्म, यत् तेन भणितमासीत्-'मार्ग विहाय कुत्रापि प्रच्छन्नत्वेन स्थीयते' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org