________________
बुद्धिचतुष्टयकथा ततः स हृष्टमना द्वितीयां बुद्धिं परीक्षितुकाम एकस्मिन् नगरे गच्छन् 'ग्रामे भुक्त्वा प्रवेष्टव्यम्' इत्यतो भोजनं कृत्वा पुरान्तर्गतः । तत्र पुरे मातुलोऽस्ति । तद्हे स यावत् प्रविशति तावदग्रे सर्वेऽपि मातुलादयो रुदन्तः सन्तिः। तेषां कोऽपि दिवं ययौ इति सोऽपि श्रेष्ठिपुत्रः सन्ध्यां यावत तैः सह क्षुधातः स्थितः, सन्ध्यायां किञ्चित् भुक्त्वा चिन्तयति-चेदत्र बुभुक्षित एवागतोऽभवं तदा कथं मम सकाले भोजनं स्यात् ? परं तेनोक्ता द्वितीयाऽपि बुद्धिः सत्याऽभवत् ।
तत्र कियदिनानि स्थित्वाऽग्रतश्चलितोऽन्यस्मिन् नगरान्तरे जगाम । तत्रापि तृतीयां बुद्धि परीक्षितुकामः चतुष्पथे गतः । तत्र वणिकपुत्राः पञ्चषाः चिन्तयन्तः सन्ति-एकस्या कश्चित् कापेटिकः सुप्तो मृतः, तनिष्कासनार्थ पञ्चाशद् द्रम्मान सम्मील्य तं श्रेष्ठिपुत्रं दृष्ट्वा तत्समीपं गत्वेति वदन्ति स्म-भो पथिक ! इमं मृतं कार्पटिक इतो हट्टात् दूरीकुरु, तुभ्यं वयं ५० द्रम्मान् दास्यामः । तेनापि चिन्तितम्-धिर ईदृशं कर्म नोचितं सतां, परं स्वगुरुकथितां तद्बुद्धि परीक्षितुं ५० द्रम्मान् लात्वा, तं कार्पटिक रज्जुना बद्ध्वा कुत्रापि गायां यावत् क्षिपति, तावत तत्कच्छोटकमध्ये कुप्यस्थेलिकां दृष्ट्वा सविस्मयस्तो गृहीत्वा पश्यति स्म। स तत्र पञ्च रत्नानि लक्षलक्षमूल्यानि विलोक्य तानि लात्वा मनसीति दध्यौ-यदसौ कपटवेषधारी कोऽपि महर्द्धिकोऽभूत, नहि अन्यस्य पार्श्वे एतानि सम्भवन्ति, इत्थं मम तृतीयाsपि बुद्धिः सफला जाता।।
पश्चात् तत्पुरे एकं रत्नं विक्रीय भाटकेन गृहं लात्वा सुखेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org