________________
अन्तर्कथासु सहस्रम्। श्रेष्ठिपुत्रेण स्वग्रन्थितः सहस्रमेकं निष्कास्य ददे । ततो भूदेवोऽवादी-'मार्गे एकाकिना न गन्तव्यम्, योऽपि सोऽपि द्वितीयः साहाय्यो ग्राह्यः' इत्युक्त्वा मौनी स्थितः । पुनः पृष्टो विप्रस्तेनोचे हे श्रेष्ठिपुत्र ! तथैव द्रम्मसहस्रद्वयीं विना न वदामि। तेन सा तथैव दत्ता। विप्रः प्रोवाच-'नगरे भुक्तवा प्रवेष्टव्यम् । पुनरेव तथैव तृतीया बुद्धिर्याचिता । विप्राय त्रिसहस्री दत्ता। विप्रेणोक्तम्-'यत् पञ्च जना भव्यमभव्यं वा कथ. यन्ति तत् कर्तव्यम्' इत्युक्त्वा मौनं कृतवान् । पुनरपि तथैवा. र्थितो विप्रः प्राह-चतुःसहस्रम् । दत्ते चतुर्थी बुद्धिमुवाच'मार्ग विहाय सुप्यते भुज्यते च'। इति बुद्धिचतुष्टयमादाय वणिकपुत्रश्चचाल । तदा विप्रो बभाण-शृणु अद्र! चतसृणां बुद्धीनां मध्ये एकाऽप्यसत्या भवेत् तदा झटित्यागत्य स्वं स्वं ग्राह्यम्, इति न चिन्त्यं यदनेन मुषितोऽहम् । अन्यच्च-यदा कदाचन तव सङ्कटं स्यात् तदा मम कथनीयं यथा निस्तारयामीति वदन् विप्रस्तं मुकलाप्य स्वग्रामाध्वनि चलितः । सोऽपि श्रेष्ठिपुत्रः कियल्लखितमार्गश्चिन्तयति स्म-यद् भणितं क्रियते-'पथि एकाकिना न गम्यते' । तर्हि साम्प्रतं न कोऽप्यत्र दृश्यते, तदैकत्र पतितं जाहकजीवमवलोक्य तमेव ग्रन्थौ बधा द्वितीयं साहाय्यं मन्यमानः स कुत्रापि सरसि स्नात्वा वटतले ग्रन्थि छोटयित्वा सुप्तः। ततस्तस्मिन् निद्राणे वटवृक्षमूलाद् दुष्टः सो निःसृतः (स) सर्पो जाहकेन विनाशितः । क्षणेन श्रेष्ठिपुत्रो विनिद्राणः तं सर्प विनष्टं निरीक्ष्य चमत्कृतश्चेतसि चिन्तयति-अहो फलिता तस्यैका मतिः, यदाऽयं सहायी न स्यात् तदा कुतो मे जीवितप्राप्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org