________________
२ बुद्धिचतुष्टयकथा (पृ० १४, श्लो० ५०)
- - 'वसन्त पुरे कश्चित् श्रेष्ठी सभार्यः परिवसति । तद्गहे पुत्र: समजनि । पिता जन्मोत्सवमकरोत् (प्रादाच गुणाकरेति नाम)।स क्रमेण यौवनं प्राप । पित्रा परिणायितः पञ्चप्रकारान् विषयान् भुङ्क्ते स्वं ददाति च इत्थं विलसति ।
अन्यदा पश्चिमरात्रौ सुप्तोत्थितश्चिन्तयति---अहो अहं वासिन भुजे, अतो देशान्तरे गत्वा स्वभुजोपार्जितं द्रव्यं भोक्ष्ये । इति चिन्तयित्वा पप्रच्छ पितरौ । ततस्तौ वदतः-वत्स! गृहे एव स्थितः सन् पूर्वजोपार्जितं द्रव्यं विलस, देशान्तरे मा गम इति पितृभ्यां निषिद्धः। ततः कियदिनानि स्थित्वाऽन्यदा द्रम्मसहस्रदशकं गृहीत्वा पितरौ अपृष्ट्वा एकाकी स देशान्तरं गन्तुकामः स्वपुरान्निर्ययो । यावता कियन्मार्ग जगाम तावन्मार्गे कश्चिद् द्विजो मिलितः । तावुभौ गच्छतः।
अन्यदा श्रेष्टिपुत्रेण द्विजोऽलापि-भोः ! कामपि कथां कथय यथा पन्थाः मूल्लङ्घयः स्यात् । तेनोक्तम्-भद्र ! ममोक्तिद्रव्यं विना न प्राप्यते। तर्हि कियद् विलोक्यते । विप्रः प्राह-द्रम्म
-
-
१ दक्षिणविहारिमुनिरत्नश्रीअमरविजयसकहस्तलिखितप्रत्याधारेण दीयतेऽत्र कथेयम् । २ पञ्चशत्या एकैका बुद्धिमुंहीता इति मूलकथायां (पृ. १४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org