________________
रङ्कप्रेष्ठिकथानकम् रिणीं वाणी निशम्य जातभी वलभी परिसरे तस्य सच्छद्मनो वणिजः सद्मनि तदालाबुस्तत्रोपनिधीचक्रे । स स्वयं सोमनाथयात्रार्थं गतः।
कस्मिन्नपि पर्वणि पाकविशेषाय चुल्लीनियोजितायां तापिकायामलाबुरन्ध्राद् गलितरसबिन्दुना हिरण्यमयीं निभाल्य स वणिक् तं सिद्धरसं निर्णीय तदलाबुसहितं गृहसारमन्यत्र स्थापयित्वा स्वगृहं प्रज्वालितवान्, अपरस्मिन् गोपुरे गृहं कृत्वा स्थितः । तत्र निवसता प्राज्याज्यक्रयकारिण्याः स्वयं घृतं तोलयंस्तदक्षीणतादर्शनाद् धृतपानाधः कृष्णचित्रकुण्डलिकां निश्चित्य केनापि छाना तां गृहीतवान् । एवं कपटकूटतुलामानव्यवहारादिभिः पापानुबन्धिपुण्यवलेन व्यवसायपरस्य रङ्कश्रेष्ठिनो मिलितं बहु द्रव्यम् । ___ एकदा कश्चित् स्वर्णसिद्धिकर्ता मिलितः । सोऽपि कपटवृत्त्या वश्चितः । गृहीता सुवर्णसिद्धिः। एवं त्रिविधसिद्धयाऽनेककोटिधनेश्वरो जातः, परमन्यायार्जितविभवपरिशीलनेन पूर्व निर्धनस्य पश्चाद् धनसम्पत्युत्सेकतया च कापि तीर्थे सत्पात्रेऽनुकम्पास्थाने वा स्वश्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकोच्चाटननवनवकरवर्द्धनाहङ्कारपोपान्यधनिस्पर्धामत्सरादिभिस्तां रमां कालरात्रिरूपां लोकायादर्शयत् ।
अथान्यदा स्वसुतारत्नखचितकङ्कतिकायां राज्ञा स्वपुत्रीकृते मान्तिायां पश्चात् प्रसभमपहतायां तद्विरोधात् स्वयं म्लेच्छमण्डले गत्वा कनककोटीदत्त्वा मुद्गलान् समानयत् । तैर्देशभने कृते रङ्केन राज्ञः सूर्यमण्डलागच्छत्तुरगरक्षकान् करिवितरणैर्विभिद्य कूटप्रपश्चः कारितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org