________________
क-परिशिष्टम् ।
अन्तर्कथासु १ रङ्कश्रेष्ठिकथानकम् (पृ० ११)
-e-oct-- मरुस्थल्या 'पल्ली'ग्रामे काकू-पाताको भ्रातरौ। तयोः कनीयान् धनी । ज्यायांस्तु निःस्वत्वेन तगृहे भृत्यवृत्त्या निर्वहते । एकदा वर्षारात्रौ दिवसकर्मपरिश्रान्तः काकूयाको रात्रौ प्रसुप्तः। पाताकेनाभिदधे-भ्रातः ! स्वकेदाराः पयःपूरैः स्फुटितसेतवः, तव तु निश्चिन्तता इत्युपालब्धः स तदा त्यक्तस्रस्तरः स्वं दरिद्रिणं परगृहकमेकारिणं निन्दन् कुद्दालं लात्वा यावत् तत्र याति तावत् कर्मकरान् स्फुटितसेतुबन्धरचनापरान् दृष्ट्वा के यूयमिति पृष्टाः, भवभ्रातुः कामुका इति तैरुते कापि मदीयास्ते सन्ति ? इति पृष्टे 'वलभी'पुर्या सन्तीति ते प्राहुः ।
अथ कालक्रमेण प्रस्ताव प्राप्य वलभ्यां गतः सकुटुम्बः । तत्र गोपुरासन्नवास्याभीराणां सन्निधौ निवसन् अत्यन्तकृशतया तैः ‘रङ्क' इति दत्ताभिधानस्तार्णमुटजं कृत्वा तेषामवष्टम्भेना मण्डयित्वा तस्थौ ।
एकदा कश्चित् कार्पटिकः कल्पप्रमाणेन 'रैवत' शैलादलाबुना सिद्धरसमादाय मार्गे 'काकूतुम्बडी'ति सिद्धरसादशरी
१ एतत् कथानकं श्राद्धगुणविवरणे पञ्चमे षष्ठे च पत्राके मुद्रितं वर्तते । तदाधारेणात्र दीयते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org