________________
११२ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम्
अस्य भावमाह-चक्रं हूंयः, क्षिनामगर्मितस्य बहिः ठकारं वेष्टयेत् । बहिः षोडश स्वरानावेष्टय बहिरष्टदलेषु पार्श्वनाथाय हीं श्रीं स्वाहा । बाह्यद्वादशपत्रेषु हर २ दातव्यम् । बाह्ये की क्ष्वी सः वेष्टयेत् । बाह्ये हकारं युगसम्पुटस्थं बहिः पवर्ण युग्मसम्पुटस्थं बहिः क्षीकारं त्रिगुणं वेष्ट्यम् । एतयन्त्रस्य तन्त्रं ॐ रुवं इवां पक्षि ह्रीं क्ष्मी हं सः स्वाहा । एतन्मन्त्रेण श्वेतपुष्पैरष्टोत्तरशतप्रमाणं दिनत्रयं यन्त्रं पूजयेत् । शान्तिकपौष्टिकज्वररुकशाकिनीभूतप्रेतराक्षसकिन्नरप्रभृतीन् नाशयति । यन्त्रं शुभद्रव्यैः भूर्जपत्रे संलिख्य कुमारीसूत्रेणावेष्ट्य बाहौ धारणीयम् । सर्वकल्याणसम्पत्कारि यन्त्र भवति ॥ द्विजपार्श्वदेवगणिविरचिते यत् किमपि (विरुद्धं ) श्रीधरणेन्द्रपार्श्वयक्षपद्मावतीप्रमुखाभिः स्वदेवताभिर्मम क्षमितव्यमिति । यच्च किश्चिद् विरूपं मन्त्रमितः सर्वस्य मिथ्यादुष्कृतमिति॥ ___ इति उपसर्गहरस्तोत्रस्य बृत्तिरियम् ॥छ॥ श्रीरस्तु ॥ मधुसु ॥ छ । श्री॥
१' रु यंत्रं मंसित (?)' इति ख-पाठः ।
२'वृत्तिः समाप्ता ॥ संवत्सरे विक्रमनृपती सप्त-नन्द-काय-भू ( १६९७)युते वर्षे आश्विनमासे शुभ्रपक्षे दुर्गाष्टम्यां तित्रौ लिषितं जगजीवनर्षिणा स्वात्महेतवे । कल्याणमस्तु । भाव्यं भवतु ।
अक्खरमत्ताहीणं जं मया लिहियं अयाणमाणेणं ।
तं (ख)मह मुज्झ सामी जिणंदमुहनिग्गया वाणी ॥१॥ शालदुर्गे स्थिते सति लेष( ख )क-पाठकयोर्जयः' इति ख-पाठः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org