________________
उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम्
१११
इत्यादयः कस्य सम्बन्धी(धिनः) न भवन्ति इति गाथार्थः॥४॥ ___ इदानीं स्तुतेः उपसंहारमाहइय संथुओ महायस ! भत्तिब्भरनिन्भरेण हियएण । ता देव दिज्ज बोहिं, भवे भवे पासजिणचंद ! ॥५॥ __व्याख्या-संस्तवः-संस्तवनम् । कोऽसौ ? महायशः-महाकीर्तिः। पुनरपि कथम्भूतेन ? भक्तिभर निर्भरेण हृदयेन' बहुमानसमन्वितेन चेतसा । कथमिति ? अमुना प्रकारेण पर्यन्तं शान्तिकपौष्टिकयन्त्रमन्त्र उच्यते । तसादेव हि बोधिः । यस्मादेवं तस्माद् वेति । देव तं कर्मतापन्न । बोधिः-सम्यक्त्वं भवेत् पाश्चेजिनचन्द्र। जन्मनि जन्मनि हे श्रीपार्श्वनाथ! स्वामिनो नामग्रहणेन क्षुद्रोपद्रवनाशनमिति गाथार्थः॥
उपभोगपरीभोगा जन्मान्तरसुकृतबीजजातास्तु । कल्पतरुसमूहाद् भवन्ति क्लेशं विना तेषाम् ॥ ते पुनर्दशप्रकारा निर्दिष्टाः श्रमणसमयकेतुभिः ॥ धीरैः कल्पतरवः ... .... एते ॥ मत्ताङ्गदाश्च भृङ्गास्त्रुटिताङ्गा दीपज्योतिश्चित्राङ्गाः । चित्ररसा मण्यङ्गा गेहाकाराश्चानिताक्षाः ॥ मत्ताङ्गदेषु मद्यं सुखपेयं भाजनानि भृङ्गेषु । त्रुटिताङ्गेषु च सङ्गतत्रुटितानि बहुप्रकाराणि ॥ दीपशिखा ज्योतिर्नामकाश्च नित्यं कुर्वन्ति उद्योतम् । चित्राङ्गेषु च माल्यं चित्ररसा भोजनार्थके ॥ मण्यङ्गेषु च भूषणवराणि भवनानि भवनवृक्षेषु । अनियतेषु निजप्रस्तववस्त्राणि बहुप्रकाराणि ॥ एतेषु चान्येषु च नरनारीगणानां भाजनवसुभोगाः। भविकपुनर्भवरहिता इति सर्वज्ञा जिना ब्रुवते ॥ १ 'देसु बोहिं' इति पाठान्तरम् । २' चंदो' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org