SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् समवसरणभूतलं तत्सर्वबाह्यं तस्य सम्बन्धापनमने प्राकारत्रयाल. कृतगोपुररत्नमयकवसीस(पिशीर्ष)तोरणविराजितमवनितलानि। योजननीहारिणी प्रेसन्नभव्यलोकहृदयानन्दकारिणी प्रधानार्धमागधीभाषाविशेषणसमकालमेव चित्तस्वरूपनरामरादिजन्तुसंशयसन्दोहापोहसंमन्याद्यनेन स्वविहारपवनप्रसरेण पञ्चपञ्चविंशतियोजनप्रमाणं चतुर्दिग्विभागमहामण्डलमध्ये सर्वव्याधिरजोराशेरपसारणेन चतुर्विधश्रीश्रमणसङ्घदेवनरेन्द्रदानवचारणविद्याधरकिन्नरनारीतिर्यञ्च( क् ? )प्रभृतिभिरमृतरसपीयमानं निरन्तरं चित्ताहाददानमिति ध्यानमित्युच्यते । पुनरपि कथम्भूतम् ? उपसर्गहरमिति । कः शब्दार्थः ? उच्यते-'सृज विसर्गे' (पा० धा० १४१५) इत्यस्य धातोरुपशब्दपूर्वकस्य उपसर्जनं उपसर्गः। 'भावे' (कातन्त्रे सं० ७५० पृ० २१४) घञ्प्रत्ययः 'नामिनथोपधाया लघोः' (कातन्त्रे मू० १०६ पृ० ११७) इत्यनेन सूत्रेण गुणे कृते पश्चात् 'चजोः कगौ धुवानुबन्धयोः' (कातन्त्रे सू० ५४२, पृ० १९०) इत्यनेन सूत्रेण गादेशे कृते उपसर्ग इति सिद्धम् । 'हृञ् हरणे' (पा० धा० ८९९) इत्यस्य धातोः हरणं हरः 'स्वरवृदृगमिग्रहाम् (अल) (कातन्त्रे मू०५७५ पृ० १९४)' अलप्रत्ययः । 'नाम्यन्तयोर्धा (कातन्त्रे सू० ३२, पृ० १०७) हरः इति सि. उपसर्गहरं, प्रत्यूहविध्वंसकमित्यर्थः । पार्श्वमिति शब्देन पार्श्वनामा यक्षः स उच्यते । तत्र पार्श्वनाथतीर्थसमुत्पन्नस्त्रयोविंशतितमो यक्षराट् अष्टा गयोगुणः' -- १ ‘यान्वमनेकं' इति ख-पाठः । २ ‘प्रसरन्त ' इति ख-पाठः । ३ ' समत्पाद्यनेन ' इति ख-पाठः । ४ एष सूत्रपृष्ठाङ्को दीयते १९५२तमे वैक्रमीयाब्दे हीराचन्द्रनेमिचन्द्रवेष्ठिना प्राकाश्यं नीतायाः कातन्त्ररूपमालाया आधारेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy