________________
उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम्
चत्वारिंशत्सहस्रयक्षपरिवृतः श्रीपार्श्वनाथपादयुग्मसेवां करोति । पुनः कथम्भूतम् ? 'कर्मघनमुक्तं', क्रियन्ते इति कर्माणि, धनानि च तानि कर्माणि च 'कचित्परनिपातोपि' इति (वचनात्) कर्मधनानि तैर्मुक्तम् , निबिडकर्मरहितमित्यर्थः। पुनरपि कथम्भूतम् ? 'विषधरविषनिर्माशं' दुष्टसर्पविषनाशकमित्यर्थः । कथम्भूतम् ? 'मङ्गलकल्याणआवासं'। मङ्गलमिति कः शब्दार्थः ? उच्यते-'अगिरगि-लगि-मगीति दण्डकधातुरस्य 'इदितानुसूधातोः' इति विहितकुणादिकाडलभूतप्रत्ययान्तस्य अनुबन्धलोपे च कृते प्रथमैकवचनान्तस्य मङ्गलमिति रूपं भवति । मङ्गयते यथाहितमनेनेति मङ्गलम् । मङ्गयते-विधिना गम्यते साध्यते इति यावत् । अथवा मङ्गेति धर्माभिधानम् । 'रा ला आदाने' इत्यस्य धातोर्मङ्ग उपपदे 'आतोनुपसर्गात् कः' (कातन्त्रे सू० ५८७, पृ० १९५) इति कप्रत्ययान्तस्य 'आतो लोप इट कित्रित्ती(१) अनेन सूत्रेणाकारलोपेच कृते प्रथमैकवचनान्तस्यैव मङ्गलमुभसिद्धमिति । कल्याणमिति कः शब्दार्थः ? उच्यते-'अण रण' इत्यादिदण्डकधातोः कल्यशब्दपूर्वकस्य कल्यमणतीति कल्याणं कर्मण्यपि 'अस्योपधाया (दीर्घो वृद्धिाभिनामिनिचट्सु') (कातन्त्रे सू०२२३, पृ० १३६) इत्यनेन सूत्रेण अकारदीर्घत्वम् । 'समानः सवर्णे दीर्घाभवति (परश्च लोपम्') (कातन्त्रे सू० २४, पृ० ५) इत्यनेन दीर्ये कृते द्वितीय कवचनान्तस्यैव कल्याणं सिद्धमिति । आवासमिति कः शब्दार्थः ? उच्यते-'वस निवासे' इत्यस्य धातोः आशब्दपूर्वकस्य आवासनं आवासः। भावे पनि कृते च समासे 'अस्योपधाया०' (कातन्त्रे मू० २२३) इत्यनेन सूत्रेण कृते दीर्घ आवासं-निवासं रमणीयं स्थानं श्रीपाश्वनाथजिनालयम् । इति गाथार्थः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org