________________
श्री जिनसूरमुनिवर्यविरचिता
'जिणवर देव आराहीर, नमीहि सहगुरु भत्ति । सुध धम्म ज सेवी, रही निरमल चित्ति ॥ २८० ॥ " गाथाद्वये प्रथमाक्षरेसु जीराउला कर्तुर्नाम च । इति स्वपुत्रस्य जयङ्करस्य शिक्षां दत्त्वा सुमुहूर्ते स्वपदे तं स्थापयामास । राजा धर्मकृत्यानि करोति । अष्टमीचतुर्दश्योः पौषधं गृह्णाति । सुपात्रेषु दानं ददाति । यतः
९४
""अभयं सुपत्तदाणं अणुकंपा उचियकीत्तिदाणं च ।
"दुनि विमोक्खो भणिओ तिनि वि भोगाइयं दिति ॥ २८९ ॥ ततः प्रान्तसमये जाते पूर्णायुः प्रतिपाल्याराधनाऽनशनादि बहुपुण्यानि विधाय प्रियङ्करराजा 'सौधर्म' देवलोके समृद्धिकदेवोऽभूत् । क्रमेण 'महाविदेह' क्षेत्रे मोक्षं प्राप्स्यति । ततः केचन पुत्राः प्रियङ्कर वदतिजाताः पितुरधिका भवन्तिस्म । श्रीस्थानाङ्गे (चतुर्थस्थानके) अप्युक्तम् - " पुत्ता चउव्विहा पन्नत्ता, तं जहाअइजाए १ सुजाए २ अणुजाए ३ कुलंगारे ४ एवं सीसा वि । " १ तात्पर्यम् -
जिनवरो देवो आराध्यतां नन्तव्यः सद्गुरुर्मतया । शुद्ध धर्म एव सेवनीयः स्थातव्यं निर्मलेन चेतसा ॥
२ अत्रापि 'जिनसूर' इति कथाप्रणेतृनाम प्रकव्यते । ३ 'पूर्णमास्योः' इति ङ-पाठः ।
४ छाया
अभयं सुपात्रदानं अनुकम्पा उचित कीर्तिदानं च । द्वे अपि मोक्षो भणितः त्रीण्यपि भोगादिकं ददति ॥ ५ ' दोह वि' इति क-पाठः ।
६ छाया-
पुत्राश्चतुर्विधा प्रज्ञप्ताः, तद्यथा - अतिजातः सुजातः अनुजातः कुलाङ्गारः । एवं शिष्या अपि । ७' सुजाए अइजाए ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org