________________
प्रियङ्करनृपकथा ।
सहकारश्च सुजातं कूष्माण्डीबीजपूरमतिजातम् । वटतरुफलं कुजातं भवति कुलाङ्गारमिक्षुफलम् ॥ २८२ ॥ अतिजातोऽधिकस्तातात्, सुजातः स्वसमः पितुः। अपजातो गुणहीनः कुलाङ्गारः कुलान्तकः ॥ २८३ ।। नोभी रिसहो पढमो बीओ आइच्चमहजसा दुन्नी । तइओ आइचजसो चउत्थो होइ कंडरीओ ॥२८४॥ 'उपसर्गहर स्तोत्रं, ये ध्यायन्ति दिवानिशम् । तेषां प्रियङ्करस्येव, सम्पदः स्युः पदे पदे ॥ २८५ ॥ इति श्रीप्रियङ्करमहाराजः श्रीजिनशासनप्रभावको महाप्रावकोऽभूत् । इत्थं प्रियङ्करनृपस्य कथां निशम्य
यत्नो विधेय इह धर्मविधौ सुधीभिः । ध्याने शुभे जिनगुरुप्रणतौ च दाने
येनात्र राजसुखसन्ततिसम्पदः स्युः।। २८६ ॥ विशालराजसूरीश-सुधाभूषण सद्गुरोः। शिष्येण जिनसूरेण, सुकृताय कथा कृता ॥२८७॥ उपसर्गहरस्तोक-कथां कल्याणकारिणीम् । शृण्वन्ति वाचयन्त्यत्र, सुखिनस्ते भवन्ति वै ॥ २८८ ॥
१ 'पुनहींनः ' इति क-पाठः । २ छायानाभेः ऋषभः प्रथमः द्वितीयः आदित्य-महायशसौ द्वौ । तृतीयः आदित्ययशाः चतुर्थकः भवति कण्डरीकः॥ ३. धनुश्चिह्नान्तर्गतोऽयं ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org