________________
प्रियङ्करनृपकथा |
९३
सेतुंजो १ सम्मतं २ सिद्धंतो ३ संघभत्ती ४ संतोसो ५ । सामाइयं ६ सड्ढा वि य ७ सत ससा दुल्लहा लोए ॥२७६॥" तीर्थे साधर्मिक वात्सल्य - श्री सङ्घ पूजा - दीनोद्धार - सत्रागारप्रभृति कृतम् । यतः
" विवाहे तीर्थयात्रायां, चन्द्रे मित्रे सुरालये । वस्त्रदानमिदं श्रेष्ठ, सत्पात्रेषु विशेषतः ॥ २७७ ॥” तत्पिता पासदत्तश्रेष्ठी तलहट्यां स्वर्गतः । तन्नाम्ना देवकुलिका श्रीशत्रुञ्जये कारिता । तत्स्थाने महोदयं कुर्वन् स्वगृहे प्राप्तः । तदनु स्वर्णमयीं राजादनीं पादुकायुतां कारयित्वा राजा स्वगृहे पूजयामास । ततो वार्धके पुण्यावसरं ज्ञात्वा पुत्राय राज्यं दित्सुस्तं शिक्षयामास । यथा
"कोपं स्वामिनि मा कृथाः प्रियतमे मानं भयं सङ्गरे खेदं बन्धुषु दुर्जने सरलतां शाठ्यं विशुद्धात्मने । धर्मे संशयितां गुरौ परिभवं मिथ्याविवादं जने ज्ञातिषु दुःस्थितेऽवगणनां नीचे रतिं पुत्रक ! || २७८ ॥ जीभ साचु बोलिजे, राग रोस कर दूरि । उत्तमसुं संगति करो, लाभइ सुख जिम भूरि ॥ २७९॥
१ छाया
शत्रुञ्जयः सम्यक्त्वं सिद्धान्तः सङ्घभक्तिः सन्तोषः । सामायिकं श्रद्धाऽपि च सप्त ससा दुर्लभा लोके ॥ २ ' विशुद्धाशये ' इति ङ-पाठः । ३ तात्पर्यम्
जिह्वया सत्यं ब्रूयात् रागरोषौ कृत्वा दूरे ।
उत्तमस्य सङ्गतिं कुरु लभ्यते सुखं येन भूरि ॥
४ दोधकस्यास्य प्रतिपादप्रारम्भिकाक्षरेण ' जीराउला' इति श्रीपार्श्वनाथ
स्यापरं नाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org