________________
९२
श्रीजिनसूरमुनिवर्यविरचिता
देवैर्वरो दत्तोऽस्ति ! किं चित्रवल्लिकाऽस्ति ? किं वा स्वर्णपुरुषः प्राप्तोऽस्ति ? । राजाssह सभायाम् - एष धर्मध्यानमहिमाऽवग-न्तव्यः । तदा कवीश्वरेणाशीर्वादद्वयमुक्तम् । यथा" श्रीमत्कंप्रिप्रियाराद (१) श्रीमत्पययशोमद । श्रीgaraat नन्द श्रीदस्याररमास्पद || २७३ ॥” स्वस्तिकं श्रीनृपनामगर्भम् ।
श्रीमत्सभाविवेकाभ ! शातकुम्भलसत्प्रभ ! | राजादे सभयादम्भ ! गुणकुम्भ ! रुचानिभः ।। २७४ ।” अष्टदलं कमलं श्रीगुरुनामगर्भम् ।
ततो राजा हृष्टः
46 ग्रामाः पञ्च हयाः पञ्च, सहस्राः पञ्च काञ्चनाः । प्रियङ्करेण तुष्टेन, दत्ता स्वस्तिककारिणे ।। २७५ ।। " ततः स्वपित्रोः श्री' शत्रुञ्जय' महातीर्थयात्रां सविस्तरां कारयामास । यथा
१ एतत्स्थाने ङ-पुस्तके काव्यद्वयं यथा -
66
'उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्या न च वचसि कटुचित्रपाकानुभोजी
कोषापेक्षी परस्मादुचितबहुपथः सर्वदा पुण्यलोकी
चित्रं राजाधिराज ! त्वमिव तव रिपुस्तत्र कम्पं (?) प्रतीमः ॥ १॥
भाले भाग्यकला मुखे शशिकला लक्ष्मीकला नेत्रयोः
हस्ते दानकला भुजे जयकला युद्धे प्रतिज्ञाकला । भोगे कोककला गुणे बलकला चित्ते प्रतिज्ञाकला
काव्ये कीर्तिकला तव प्रतिदिनं क्षोणीपते ! राजते ॥ "
२-३ प्रियङ्करेति नृपनाम, विशालराजेति गुरुनाम इति सुस्पष्टं यन्त्रदर्शनादवसीयते । ४' राज्ञा आशीर्वाद दातुदनं दत्तम्' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org