________________
प्रियङ्करनृपकथा ।
पुत्रो निमन्त्रितः। तदागुरुभिरुक्तम् । अस्याष्टमस्य पारणं वर्तते, तेन पूर्वमेव भोजनं देयम् । राज्ञा प्रतिपन्नम्-स आगतो भोजनार्थमुपवेशितः। तावता महेश्यानां पञ्चशती भोजनाय समागता। यावत् स श्राद्धः पारणकं कृत्वोत्थितः, तावद् गगनात् मुद्रिका समुत्तीणों राज्ञो हस्ते स्वयमागता। राजा दध्यौ-किमद्य सञ्जातम् ? किं देवः कुपितः ? किं वा ममानास्था काऽप्यभूत् ? किंवा मत्पुण्यं क्षीणम् ? किं देवोक्तं पुण्यमद्यासत्यं जातम् ? कथमधुना महत्त्वं रक्षणीयम् १ कथं वा पञ्चशतीनामागतानां शीघ्रं गौरवं करणीयम् ? तावद् देववागभूद् राज्ञश्चतुष्के
"राजश्चिन्ता नैव कार्या, न मृषा देवतावचः । __ तव पञ्चशतीपुण्य-मेकस्मिन् भोजिते भवेत् ।। २७१ ॥
महतां महान्तो वात्सल्यकारिणः स्युः, न लघूनां पुण्यवतां गुणवतां कोऽप्यस्ति । यतः" नागुणी गुणिनो वेत्ति, गुणी गुणिषु मत्सरी ।
गुणी च गुणरागी च, विरलः सरलो जनः ॥ २७२ ॥" ततः सूपकारेणोक्तं नृपाने-परमानपात्राणि रिक्तानि जातानि। ततो देव आकाशस्थोऽवक्-मावद, त्वं गत्वा विलोकय, मया भृतानि सन्ति । मनुष्यसहस्राणां भोजने कारितेऽपि न्यूनानि न भविष्यन्ति । नृपो हृष्टः सर्वान् भोजयामास । तानि तथैवाकण्ठं भृतानि दृश्यन्ते । ततः सकलं नगरं निमन्त्र्य भोजितम् । नगरलोकस्य चमत्कारो जातः । कोऽपि पाकं कुर्वाणो न दृश्यते । सर्वेषां दिव्याहारो जातः । तत् किं देवः प्रत्यक्षोऽस्ति ? किंवा
१ 'भोजितः' इति ङ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org