________________
प्रियङ्करनृपकथा।
अत्र देवेन सह देवपूजा मयैव दश दिनानि कृता। येत् तैर्दिव्याहारो भोजितः तत्स्वरूपं वक्तुं न पार्यते । तत्रत्यां ऋद्धिं दृष्ट्वा मम पुण्ये विशेषरुचिर्जाता । तदा मयोक्तम्-धरणेन्द्र ! मां नगरे प्रेषय यथा पुण्यं करोमि । ततः श्रीधरणेन्द्रेण स्वहस्तसक्ता दिव्यरत्नमयी मुद्रिका सप्रभावा गगनस्थायिनी बहुजनभोजनदायिनी समर्पिता । एतस्याः प्रभावं शृणु-यदा विशेष पुण्यकार्य स्यात् तदा प्रातरेषा नमस्कारोपसर्गहरस्तवाद्यगाथात्रयं वारत्रयं स्मृत्वाऽङ्गणे आकाशे प्रोच्छालनीया। तत्र तावत् स्थास्यति यावत् पश्चजनसर्धिपश्चशतीनां भोजनं भविष्यति । राजा हृष्टः, तां मुद्रिका सबहुमानमलात् । ततः तेनाद्य स्वदेवयुतो दिव्यतुरङ्गमेनात्र प्रेषितः । परं युष्माकं संमुखागमनेन कौतुकं जातम् । प्रधानः प्राह-देवाधिष्ठायकदेववाक, पातालगमनात्रागमनकपाटोद्घाटनं यावत् सर्व मन्त्रिभिः कथितम् । ततो नृप आह–सभाग्रे पुण्यफलानि । यानि देवानां सौख्यानि वर्तन्ते, तानि वक्तं कः क्षमः स्यात् ? । उक्तं च""देवाण देवलोए जे सुक्खं तं नरो सुभणिओ वि। न भणइ वाससएण वि जस्स वि जीहासयं हुज्जा ॥२६७॥"
तेन पुण्यमेव करिष्यामि । मन्त्र्याह-पार्थिवानां सदा पुण्यमस्ति । यतः--
१ ततस्तै.' इति ङ-पाठः। २' कार्ये राद्धं भोजनं ' इति क-पाठः । ३ छाया
देवानां देवलोके यत् सौख्यं तद् नरः सुभणितोऽपि । न भणति वर्षशतेनापि यस्यापि जिह्वाशतं भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org